Table of Contents

<<3-4-110 —- 3-4-112>>

3-4-111 लङः शाकटायनस्य एव

प्रथमावृत्तिः

TBD.

काशिका

आतः इत्येव। आकारान्तादुत्तरस्य लङादेशस्य झेः जुसादेशो भवति शाकटायनस्य आचार्यस्य मतेन। अयुः। अवुः। अन्येषां मते अयान्। ननु ङितः इत्यनुवर्तते। अत्र लङेव अकारान्तादनन्तरो ङित् सम्भवति न अन्यः, तत् किं लङ्ग्रहणेन? एवं तर्थि लङेव यो लङ् विहितः तस्य यथा स्यात्, लङ्वद्भावेन यस् तस्य मा भूत्, लोटो लङ्वत् 3-4-85 इति। यान्तु। वान्तु। सिजभ्यस्तविदिभ्यश्च 3-4-109 इत्ययम् अपि झेर् जुस् लोटो न भवति। बिभ्यतु। जाग्रतु। विदन्तु। जुस्भावमात्रं हि मुख्येन लङा विशेष्यते। एवकार उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

570 आदन्तात्परस्य लङो झेर्जुस् वा स्यात्. अयुः, अयान्. यायात्. यायाताम्. यायुः. यायात्. यायास्ताम्. यायासुः. अयासीत्. अयास्यत्. वा गतिगन्धनयोः.. 5.. भा दीप्तौ.. 6.. ष्णा शौचे.. 7.. श्रा पाके.. 8.. द्रा कुत्सायां गतौ.. 9.. प्सा भक्षणे.. 10.. रा दाने.. 11.. ला आदाने.. 12.. दाप् लवने.. 13.. पा रक्षणे.. 14.. ख्या प्रकथने.. 15.. अयं सार्वधातुके एव प्रयोक्तव्यः.. विद ज्ञाने.. 16..

बालमनोरमा

294 लङः शाकटायनस्यैव। `झेर्जुसि'ति `आत' इति चानुवर्तते। तदाह–आदन्तादिति। जुस्वेति। शाकटायनग्रहणाद्वकल्पलाभ इति भावः। एवकारस्तु `लिट् च' `लिङाशिषी'त्युत्तरार्थ इति भाष्ये स्पष्टम्। नच `लोटो लङ्व'दित्यतिदेशाद्यान्तु इत्यत्रापिजुस्विकल्पः शङ्क्यः,`नित्यं ङितः' इत्यतो हित इत्यनुवृत्त्यैव सिद्देर्लङ्ग्रहमस्य लङ्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात्। इदमपि भाष्ये स्पष्टम्। अयानिति। जुसभावे रूपम्। अयासीत्। ष्णाधातुः षोपदेशः। नस्य ष्टुत्वेन णत्वनिर्देशः। स्नाति। स्नायात्-स्नेयात्। पा रक्षणे। `एर्लिङी'ति सूत्रे `गातिस्थे'त्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुकौ न। तदाह– पायास्ताम्। अपासीदिति। दाप् लवने। घुत्वाऽभावात् `शेषे विभाषे'ति णत्वविकल्पं मत्वा आह- - प्रणिदाति प्रनिदातीति। घुत्वाऽभावादाशीर्लिङि एत्वं, लुङि लुक्, च नेति मत्वाऽऽह अदायास्तामिति। अदासीदिति च। ख्या प्रकथन।सार्वधातुकमात्रविषय इति। मात्रशब्दोऽवधारणे। सार्वधातुक एवास्य ख्याधातोः प्रयोगः,न त्वाद्र्धधातुक इत्यर्थः। कुत इत्यत आह–सस्थानत्वमिति। `चक्षिङ ख्या'ञिति सूत्रे ख्यास्थाने `ख्याञ्' इति वक्तव्यम्। अस्य शकारस्य `पूर्वत्रासिद्ध'मित्यधिकारे यकारो वक्तव्य इत्युक्तवा `प्रयोजननं सौप्रख्ये वुञ्विधि'रित्युपक्रम्य `सस्थानत्वं नमः ख्यात्रे' इत्युक्तं वार्तिके। तत्र नञमध्याह्मत्य `नमः ख्यात्रे' इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये। तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः। तत्र सस्थानपदं व्याचष्टे— सस्थानो जिह्वामूलीय इति। प्राचीनाचार्यसमयादिति भावः। स नेति। स = जिह्वामूलीयो नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्याञादेशस्य ख्श्यादित्वविधौ, शस्य यत्वविधौ च प्रयोजनमित्यर्थः। ख्श्यादित्वे इति। यत्वविधावित्यस्याप्युपलक्षणम्। शकार्थानिकयत्वस्याऽसिद्धत्वात् `शर्परे विसर्जनीयः' इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तकह्मदयम्। ख्याधातोरस्याद्र्धधातुकेऽपि प्रयोदसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाऽभावादसिद्धत्वाऽभावात् `शर्परे विसर्जनीयः' इत्यस्याऽप्रवृत्तौ कुप्वोर्जिह्वामूलीयोदुर्वारः स्यात्। ततश्चाद्र्धदातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते,ज्ञापकस्य सामान्यापेक्षत्वादिति भावः। संपूर्वस्येति। सार्वधातुकेऽपीति भ#आवः। अत्र व्याख्यानमेव शरणम्। एवं च `सङ्ख्यती'त्यादि नास्तीति फलितम्। सङ्ख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम्। मा माने इति। मानं परिमितिरिति भावः। तदाह–अकर्मक इति। `माति घृतं पात्रेऽस्मि' न्निति उदाहरणम्। परिमितं भवतीत्यर्थः। संगृहीतं भवतीति यावत्। अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति–तनो ममुस्तत्रेति। `तनौ मुमस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः' इति माघकाव्ये तपोधनस्य नारदस्य अभ्यागमेन आगमनेन संभवाः मुदः = संतोषाः, कैटभद्विषः = श्रीकृष्णस्य तनौ = शरीरे , न ममुः= परिमिता न बभूवुः। आधिक्यान्न संगृहीता बभूवुरिति यावत्। अर्थान्तरे त्विति। परिच्छेदे त्वित्यर्थः। उदरमिति। `उदरंपरिमाति मुष्टिना कुतुकी कोऽपिदमस्वसुः किमु' इति नैषधकाव्ये। कोऽपिकुतुकी दमस्वसुः =दमयन्त्याः, उदरं मुष्टिना परिमाति किमु ?, किमुपरिगृह्णातीत्यर्थः। नास्य ग्रहणमिति। `घुप्रकृतिमा'ङिति भाष्यादिति भावः। एवं च `शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वाऽऽह—प्रणिमाति प्रनिमातीति। ममौ।ममिथ–ममाथ। ममिव। मात। मास्यति। मातु। अमात्। अमासीत्। अमास्यत्। वचपरिभाषणे। अनिट्। अयमन्तीति। लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः। बहुवचनपर इति। `न प्रयुज्यते' इति शेषः। अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति। झिपर इति। `न प्रयुज्यते' इति शेषः। अस्मिन् पक्षे लिडादिष्वपि [प्रथमपुरुष] बहुवचनं नास्तीति भावः। तत्र लिटि अकिति `लिट\उfffद्भ्यासस्ये'ति संप्रसारणम्। उवाच। किति तु `वचिस्वपी'ति संप्रसारणम्। ऊचतुः। उवचिथ –उवक्थ। ऊचिव। वक्ता वक्ष्यति। वक्तु। अवक्। वच्यादिति। विधिलिङि रूपम्। आशीर्लिङि `वचिस्वपी'ति संप्रसारणं मत्वाऽऽह– उच्यादिति। अवोचदिति। लुङि `अस्यतिवक्ती'ति च्लेरङि `वच उ'मिति भावः। विद ज्ञाने इति। अनिट्सु लुग्विकरणस्याऽग्रहणादयं सेट्।

तत्त्वबोधिनी

254 प्रणिदातीति। `शेषे विभाषे'ति णत्वविकल्पः। अदासीदिति। अघुत्वान्न सिज्लुक्। नमः ख्यात्रे इति। यद्ययमाद्र्धधातुकेऽपि प्रयुज्येत तर्हि तृजन्तेऽस्मिन्परे `शर्परे विसर्जनीयः' इत्यस्याऽप्रवृत्त्या `कुप्वो'रिति जिह्वामूलीयो दुर्वारः स्यादेवेति `तदभावः ख्शादित्वे प्रयोजन'मिति वार्तिककाराद्युक्तिव्र्याकुप्येतेति भावः। संपूर्वस्येत्यादि। सङ्ख्यातीत्यादि प्रयोगो नास्त्येव। `सङ्ख्ये'ति प्रयोगस्तु ख्याञादेशस्येति न्यासकाराशयः। मा माने। नास्येति। `घुप्रकृतिमा'ङिति पाठान्ङितामेव तत्र ग्रहणं, ततश्च `शेषे विभाषे'ति विकल्प एव प्रवर्तत इत्याशयेनाह– प्रणिमातीत्यादि। वच परिभाषणे। उवाच। वक्ता। वक्ष्यति। वक्तु। वक्तात्। अवक्। अवक्ताम्। अयमन्तिपर इति। तथा च– वचन्ति, वक्ष्यन्ति, वचन्तु, अवचन्, अवोचन्, अवक्ष्यन्नित्येतेऽसाधवः। बहुवचनपर इति। अस्मिन् पक्षे लटि मध्यमे- - वक्थ। उत्तमे तु – वच्मः। लिटि – ऊचुः। मध्यमे- उच। उत्तमे तु –ऊचिम। लुटि– - वक्तारः। लिङि–उच्यासुः। वच्यासुरित्यादयोऽप्यसाधवः। झिपर इति। अ\उfffद्स्मस्तु पक्षे– वक्थ वच्मः ऊच ऊचिमेत्यादयः साधव इति दिक्।

Satishji's सूत्र-सूचिः

373) लङः शाकटायनस्यैव 3-4-111

वृत्तिः आदन्‍तात्‍परस्‍य लङो झेर्जुस् वा स्‍यात्। Following a verbal root ending in a आकारः, the affix “झि” of लँङ् is optionally replaced by “जुस्”।

उदाहरणम् – अयुः (√या, अदादि-गणः, या प्रापणे, धातु-पाठः #२. ४४) लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

The √या-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √या-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

या + लँङ् 3-2-111 = या + ल् 1-3-2, 1-3-3
= या + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= या + जुस् 3-4-111 = या + उस् 1-3-7, 1-3-4
= या + शप् + उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = या + उस् 2-4-72
= युस् 6-1-96 = अट् युस् 6-4-71, 1-1-46 = अ युस् 1-3-3 = अयु: 8-2-66, 8-3-15

The “जुस्”-आदेश: prescribed by 3-4-111 is optional because it is only in the opinion of the teacher शाकटायन:। In the opinion of the other teachers, there is no “जुस्”-आदेश: and we get the alternate (usual) form अयान् as follows:
अयान् (√या, अदादि-गणः, या प्रापणे, धातु-पाठः #२. ४४) लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

या + लँङ् 3-2-111 = या + ल् 1-3-2, 1-3-3
= या + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= या + झ् 3-4-100 = या + शप् + झ् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= या + झ् 2-4-72 = या + अन्त् 7-1-3 = यान्त् 6-1-101 = अट् यान्त् 6-4-71, 1-1-46 = अ यान्त् 1-3-3
= अयान् 8-2-23