Table of Contents

<<2-4-71 —- 2-4-73>>

2-4-72 अदिप्रभृतिभ्यः शपः

प्रथमावृत्तिः

अदिः प्रभृतिभ्य (5/3), शपः (6/1)|
हिन्दी – [अदिप्रभृतिभ्यः] अदादि धातुओं से परे जो [शप:] शप् आता है, उसका लुक हो जाता है।#

काशिका

अदिप्रभृतिभ्य उत्तरस्य शपो लुग् भवति। अत्ति। हन्ति। द्वेष्टि।

Ashtadhyayi (C.S.Vasu)

After the verb अद् ’to eat' and the rest there is a luk-elision of the Vikarana शप् (3-1-68).

लघु

554 लुक् स्यात्. अत्ति. अत्तः. अदन्ति. अत्सि. अत्थः. अत्थ. अद्मि. अद्वः. अद्मः.

बालमनोरमा

254 अदिप्रभृतिभ्यः। `ण्यक्षत्रियार्षञितः' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– लुक् स्यादिति। अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम्। अत्तीति। शपो लुकि दस्य चर्त्वेन तकारः। एवमत्त इत्यपि। अदन्तीति। तदर्थमेव `झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः। अत्सि अत्थः अत्थ। अद्मि अद्वः अद्मः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

363) अदिप्रभृतिभ्यः शपः 2-4-72
वृत्तिः अदिप्रभृतिभ्यः उत्तरस्य शपः लुक् भवति । The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

उदाहरणम् – अत्ति (√अद्, अदादि-गणः, अदँ भक्षणे, धातु-पाठः #२. १) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The ending उकारः of the धातुः-√अद् has a उदात्त-स्वरः। Thus the √अद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अद्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

अद् + लँट् 3-2-123 = अद् + ल् 1-3-2, 1-3-3
= अद् + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + ति 1-3-3 = अद् + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + ति 2-4-72 = अत्ति 8-4-55