Table of Contents

<<3-4-84 —- 3-4-86>>

3-4-85 लोटो लङ्वत्

प्रथमावृत्तिः

TBD.

काशिका

अतिदेशो ऽयम्। लोटो लङ्वत् कार्यं भवति। तामादयः, सलोपश्च। पचताम्। पचतम्। पचत। पचाव। पचाम। अडाटौ कस्मान् न भवतः, तथा झेर् जुसादेशः लङः शाकटायनस्य एव 3-4-111) इति वान्तु, यान्तु इत्यतो वाग्रहणम् अनुवर्तते, सा च व्यवस्थितविभाषा भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

415 लोटस्तामादयस्सलोपश्च..

बालमनोरमा

47 लोटो लङ्वत्। लङ इव लङ्वत्। `तत्र तस्येवे'ति षष्ठ\उfffद्न्ताद्वतिः। तदाहलोटो लङ इवेति। ननु तर्हि `लुङ्लङ्लृङ्क्ष्वडुदात्त' इत्यडागमोऽपि स्यादित्यत आह- - तेनेति। लङ इति स्थानषष्ठ\उfffद्न्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः। अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः। केन तामादयः, केन वा सलोप इत्यत आह–तथा हीति। तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः।

तत्त्वबोधिनी

37 `लोट' इत्युपमेये षष्ठीदर्शनात् [उपमानादपि] षष्ठ\उfffद्न्तादेव वतिः, तदाह– तेनेति। अडादौ तु नातिदिश्येते, न हि तौ लङः क्रियेते, किं तु लङि अङ्गस्येति भावः॥ नन्वेमपि यान्तु वान्तु इत्यत्र `लङः वाग्रहणमिहानुवत्र्य व्यवस्थितविभाषाश्रयणान्न जुस्। यद्वा `लङः शाकटायनस्ये'ति सूत्रे `नित्यं ङितःर' इत्यतो `ङित' इत्यनुवृत्त्यैवेष्टसिद्धेर्लचङ्ग्रहणमतिरित्यते, लुङि सिचा, लृङि स्यप्रत्ययेन च व्यवधानात्, लिङि तु `झेर्जु'सिति जुसो विहितत्वाच्च, `ङित' इत्यस्य लड\उfffदेव पर्यवसानात्। ततो लड्ग्रहणं विभज्यते। नियमश्चायं `लडेव यो लङ् तस्यैव झेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्ये'त्यतो नोक्तदोष' इति। तञ्चिन्त्यम्। अदुरित्यत्र `सिजभ्यस्ते'ति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात्। तस्माल्लड्ग्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते। न च `आतः' इति सूत्रेणाऽदुरित्यत्र नित्यं रजुस्स्यादिति वाच्यं, तस्य नियमार्थत्वेन विद्यर्थत्वा।योगात्, अन्यथा अभूवन्नित्यत्र `सिजभ्यस्ते'ति जुस् दुर्वार एव स्यादिति नव्याः॥ यदि त्विह `आतः' इति सूत्रमावर्त्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तद#ओषाऽभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात्। तदभावपक्षे पुनःप्रसङ्गविज्ञानात् `सिजभ्यस्ते'ति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्?वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवैति दिक्।

Satishji's सूत्र-सूचिः

299) लोटो लङ्वत्‌ 3-4-85

वृत्तिः लोटो लङ्वत् कार्यं भवति । तामादयः सलोपश्च । लोँट् is treated like लँङ्, and hence the following two operations take place in the case of लोँट् as they do in the case of लँङ् -
i) the substitution by ताम् etc. (ref 3-4-101) and ii) the elision of सकारः (ref 3-4-99).