Table of Contents

<<3-4-99 —- 3-4-101>>

3-4-100 इतश् च

प्रथमावृत्तिः

TBD.

काशिका

ङितः इत्येव। ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेषु इत्येव, अपचावहि, अपचामहि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

426 ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः. अभवत्. अभवताम्. अभवन्. अभवः. अभवतम्. अभवत. अभवम्. अभवाव. अभवाम..

बालमनोरमा

56 इतश्च। लस्येत्यधिकृमतम्। `इतश्च लोपः परसमैपदेष्वि'त्यस्माल्लोप इति, परस्मैपदेष्विति चानुवर्तते। परस्मैपदष्वित्येततत्षष्ठ\उfffदा विपरिणम्यते। तदाह- - ङितो लस्येत्यादिना। अलोऽन्त्यस्येत्यन्त्यस्य लोपः। तदाह–अभवदिति। अभवतामिति। लङस्तस्तामादेशः। शप् गुणावादैशौ। अट्। अभवन्निति। झेरन्तादेशः। शप् गुणावादेशौ।अट्। `इतश्चे'तीकारलोपः। तकारस्य संयोगान्तलोपः। अभव इति। सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ। अभवतमिति। थसस्तमादेशः। शप्। गुणावदेशौ। अट्। अभवतेति। थस्य तादेशे शपि गुणे अवादेशेऽटि। अभवमिति। मिपोऽमादेशे शपि गुणेऽवादेशे पूर्वरूपम्। अभवावेति। वसि शपि गुणावादेशौ। अट्। `अतो दीर्घो यञी'ति दीर्घः। `नित्यं ङित' इति सकारलोपः। एवं मसि अभवामेति रूपम्। इति लङप्रक्रिया।

तत्त्वबोधिनी

41 `इतश्च लोपः' इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठ\उfffदेकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते। तदाह– परस्मैपदमिकारान्तं यत्तस्येति। प्राचा तु `परस्मैपदेष्विकारस्य लोपर' इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः। ननु `अतो येयः' इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिः `इतश्चे'ति तपरकरणात्। अत एव अबोभवीदित्यादावपि न दोष इति चेत्। मैवम्। करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥

Satishji's सूत्र-सूचिः

311) इतश्‍च 3-4-100

वृत्तिः ङितो लस्‍य परस्‍मैपदमिकारान्‍तं यत्तदन्‍तस्‍य लोपः । The ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

Example continued from above

भू + तिप् = भू + ति 1-3-3 = भू + त् 3-4-100
= भू + शप् + त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + त् 7-3-84
= भो + अ + त् 1-3-3, 1-3-8 = भवत् 6-1-78 = अट् भवत् 6-4-71, 1-1-46 = अभवत् 1-3-3