TBD.
पूर्वेण प्रकरणेन आत्मनेपदनियमः कृतः, न प्रस्मैपदनियमः। तत् सर्वतः प्राप्नोति, तदर्थम् इदम् उच्यते। येभ्यो धातुभ्यो येन विशेषणेन आत्मनेपदम् उक्तं ततो यदन्यत् स शेषः। शेषात् कर्तरि परस्मैपदं भवति। शेषादेव न अन्यस्मात्। अनुदात्तङित आत्मनेपदम् उक्तम् अस्ते। शेते। ततो ऽन्यत्र परस्मैपदम् भवति याति। वाति। नेर्विशः आत्मनेपदम् उक्तम् निविशते। ततो ऽन्यत्र परस्मैपदम् आविशति। प्रविशति। कर्तरि इति किम्? पच्यते। गम्यते। कर्मकर्तरि कस्मात् परस्मैपदं न भवति, पच्यते ओदनः स्वयम् एव? कर्तरि कर्मव्यतिहारे 1-3-14 इति द्वितीयं कर्तृग्रहणम् अनुवर्तते, तेन कर्ताएव यः कर्ता तत्र प्रस्मैपदम् भवति, कर्मकर्तरि न भवति।
TBD.
382 आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात्..
9 शेषात्कर्तरि। `अनुदात्तङित' इति `स्वरितञित' इति चोक्तादात्मनेपदविषयादन्यः शेषः। तदाह–आत्मनेपदनिमित्तहीनादिति। अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम्। तत्र तिबादिनवके युगपत्पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्ते `युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' `अस्मद्युत्तमः' `शेषे प्रथमः' इति व्यवस्थां वक्ष्यन् प्रथमादिसंज्ञां तावदाह–तिङस्त्रीणि त्रीणि।
–
283) शेषात् कर्तरि परस्मैपदम् 1-3-78
वृत्तिः आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात्। When used in the context of marking the agent (कर्तृवाच्य:), a धातुः will take परस्मैपद-प्रत्यया: when it does not satisfy any of the conditions (listed in the rules from 1-3-12 to 1-3-77) for obtaining आत्मनेपद-प्रत्यया:।