Table of Contents

<<6-1-95 —- 6-1-97>>

6-1-96 उस्यपदान्तात्

प्रथमावृत्तिः

उसि (7/1), अपदान्तात् (5/1)।
हिन्दी – [अपदान्तात्] अपदान्त अवर्ण से उत्तर [उसि] उस् परे रहते पूर्व पर के (=अवर्ण और् उस् के उ के) स्थान में पररूप एकादेश होता है, संहिता के विषय में।

काशिका

आतित्येव। अवर्णातपदान्तातुसि पूर्वपरयोः आद्गुणापवादः पररूपम् एकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उसदुः। अया उसयुः। अपदान्तातिति किम्? का उस्रा कोस्रा। का उषिता कोषिता। आतित्येव, चक्रुः। अबिभयुः।

Ashtadhyayi (C.S.Vasu)

For the अ or आ (not standing at the end of a Pada or full word)+उ of उस the Tense-affix, the second vowel is the single substitute.

लघु

494 अपदान्तादकारादुसि पररूपमेकादेशः. अपुः. अपास्यत्.. ग्लै हर्षक्षये.. 17.. ग्लायति..

बालमनोरमा

तत्त्वबोधिनी

47 अन्तरङ्गत्वादिति। प्रत्ययमात्रापेक्षत्वात्। `अतो येयः' इत्यस्य त्वाङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वेन बहिरङ्गत्वादिति भावः। नचाऽपदान्ताऽकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेन्मैवम्, अनेकाश्रयणेऽपि प्रत्ययमात्राश्रयतया प्रकृतेरनाश्रयणात्। व्याख्येयमिति। एतच्च विप्रतिषेधसूत्रे भाष्ये स्पष्टम्॥

Satishji's सूत्र-सूचिः

339) उस्यपदान्तात्‌ 6-1-96
वृत्तिः अपदान्‍तादवर्णादुसि परे पररूपमेकादेशः। In place of the preceding अवर्ण: (अकार:/आकार:), which is not at the end of a पदम्, and the following उकार: of the उस्-प्रत्यय:, there shall be a single substitute which is the latter (उकार:)।

उदाहरणम् – शृणुयुः (√श्रु-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, बहुवचनम्)
श्रु + लिङ् 3-3-161 = श्रु + ल् 1-3-2, 1-3-3
= श्रु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= श्रु + जुस् 3-4-108, जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= श्रु + उस् 1-3-7, 1-3-4
= श्रु + यासुट् उस् 3-4-103, 1-1-46 = श्रु + यास् उस् 1-3-3
= शृ + श्नु + यास् उस् 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + नु + यास् उस् 1-3-8
Now “नु” is ङिद्वत् by 1-2-4 and “यास् उस्” is ङित् by 3-4-103. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
= शृ + नु + या उस् 7-2-79
= शृ + नु + युस् 6-1-96
= शृनुयु: 8-2-66, 8-3-15 = शृणुयु: (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)