Table of Contents

<<1-3-11 —- 1-3-13>>

1-3-12 अनुदात्तङित आत्मनेपदम्

प्रथमावृत्तिः

TBD.

काशिका

अविशेषेण धातोरात्मनेपदं पर्स्मैपदं च विधास्यते, तत्र अयं नियमः क्रियते। अनुदात्तैतो ये धतवो ङितश्च, तेभ्य एव आत्मनेपदं भवति न अन्येभ्यः। अनुदत्तेद्भ्यः, आस आसते। वस वस्ते। ङिद्भ्यः खल्वपि, षूङ् सूते। शीङ् शेते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

380 अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्..

बालमनोरमा

तत्त्वबोधिनी

7 अनुदात्तश्च ङश्च अनुदात्तङौ, तौ इतौ यस्य सोऽनुदात्तङित्। द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं संबध्यते। तत्रानुदात्तांशे तदन्तविधेः फलाऽभावादंशान्तर एव तदन्तग्रहममित्याशयेनाह–अनुदात्तेत इत्यादि। `उपदेशेऽजनुनासिक' इत्यतोऽनुवृत्तमुपदेशग्रहममपि ङिदंश एव संबध्यते, नान्यत्र, अव्यभिचारात्तदाह– उपदे?शे यो ङिदिति। विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह— धातोरिति। लस्येति। नन्विहाऽनुवृत्तेरभावादुभयमपि दुर्लभं, `भूवादयः' इति सूत्रान्मण्डूकप्लुत्यानुवृत्तस्य `धातव' इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरितिपदे लब्धेऽपि लस्येत्येतन्न लभ्यत इति चेत्। अत्राहुः– `इको झ'लित्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोरापेक्षो बोध्यः, तिङां लादेशत्वाल्लस्य च धातोर्विधानादिति। उपदेश इति किम् ?। चुकुटिषति। `गाङ्कुटादिभ्यः' इति सन आतिदेशिकं ङित्त्वम्। धातोः किम् ?। चङ्ङ्भ्यां माभूत्। अदुद्रुवत्। अवोचत्। ननु लावस्थायामेव वृतादिभ्यः `स्यतासी' इत्यादिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाऽप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गत्वात्स्यप्रत्ययात्पूर्वमेव लस्य तिबादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिध्यत्येवेति `वृद्भ्यः स्यसनो'रिति सूत्रे स्यग्रहणं व्यर्थं [स] त्तेनैव स्यग्रहणेन `विकरणेभ्यो नियमो बलीया'निति ज्ञापितम्। तेनानुदात्तेत्त्वाद्वर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्ते `वृद्भ्यः स्यसनो'रिति परस्मैपदमपि पक्षे भवति। तथा च विकरणेभ्यो नियमस्य बलीयस्त्वाच्चङ्ङोर्दोषः स्यादेव। अयं च पक्षः `शदेः शितः' इति सूत्रे भाष्यकैयटयोः स्पष्टः। किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावस्यकं। `धातोरेकाच' इत्यादिना यङ्। बोभूयते। `ऋतेरीयङ्'। ऋतीयते। शेते ह्नुते इत्यत्र तु व्यपदेशिवद्भावेन ङिदन्तत्वम्। `नमोवरिवश्चित्रङ' इति क्यचि चित्रीयते इत्येतत्कथमिति चेत्। अत्राहुः— अवयवेऽचरितार्थो ङकार क्यजन्तस्य विशेषणं भवति। तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावेनैव ङिदन्तत्वं बोध्यमिति।

Satishji's सूत्र-सूचिः

281) अनुदात्तङित आत्मनेपदम् 1-3-12

वृत्तिः अनुदात्तेतो ङितश्‍च धातोरात्‍मनेपदं स्‍यात्। The आत्मनेपद-प्रत्यया: follow a धातुः which is distinguished in the धातु-पाठः by an इत् that has the अनुदात्त-स्वर: or has ङकारः as an इत्।