Table of Contents

<<3-4-109 —- 3-4-111>>

3-4-110 आतः

प्रथमावृत्तिः

TBD.

काशिका

सिज्ग्रहणम् अनुवर्तते। सिच आकारान्ताच् च परस्य झेः जुसादेशो भवति। कथम् आभ्यामानन्तर्यम्? सिचो लुकि कृते प्रत्ययलक्षणेन सिचो ऽनन्तरः, श्रुत्या चाकारान्तादिति। अदुः। अधुः। अस्थुः। तकारो मुखसुखार्थः। पूर्वेण एव सिध्द्धे नियमार्थं वचनम्, आत एव सिज्लुगन्तात्, न अन्यस्मातिति। अभूवन्। प्रत्ययलक्षनेन जुस् प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वान् नियमस्य। श्रूयमाने हि सिचि भवत्येव, अकार्षुः, अहार्षुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

493 सिज्लुकि आदन्तादेव झेर्जुस्..

बालमनोरमा

75 आतः। `झेर्जु'सिति सूत्रमनुवर्तते। `आतः सिज्लुगन्तादिति वक्तव्य'मिति वार्तिकं भाष्ये पठितम्। ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते। सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम्। तदाह– आदन्तादेवेति। अभूवन्निति। झिः। च्लिः। सिच्। लुक्। अट्। झोऽन्तः। इतश्चेति इकारलोपः। तकारस्य संयोगान्तलोपः। `भुवो वुग्लुङ्लिटो'रिति वुक्। सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः। अभूरिति। सिप् च्लिः सिच् लुक् अट् इकारलोपः। रुत्वविसर्गौ। अभूतमिति। थसस्तम् च्लिः सिच् लुक् अट्। गुणनिषेधः। एवं थस्य तादेशे अभूतेति रूपम्। अभूवमिति। मिप् अम्। च्लिः सिच्। लुक्। अट् वुक्। अभूवेति। वस् च्लिः सिच् लुक् अट्। नित्यं ङित इति सकारलोपः। गुणनिषेधः। एवं मसि अभूमेति रूपम्। अथ माङि लुङि विशेषमाह– न माङयोगे। शेषपूरणेन सूत्रं व्याचष्टे—अडादौ न स्त इति। `लुङ्लङ्लृङ्क्ष्वडुदात्त' इत्यत, `आडजादीना'मित्यश्च तदनुवृत्तेरिति भावः। मा भवान्?भूदिति। `मा स्म भवद्भूद्वेति। एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम्। इति लुङ्?प्रक्रिया।

तत्त्वबोधिनी

57 सिज्ग्रहणमंनुवर्तते, `झेर्जु'सिति च। सिच आकाराच्च परसय् झेर्जुस्। तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या। एवं स्थिते फलितमाह– सिज्लुकीति। `गातिस्थे'ति सूत्रेणेत्यर्थः। `सिज्यभ्यस्ते'ति पूर्वसूत्रेणवादन्तादपि झेर्जुस् सिद्धे स्थिते नियमार्थोऽयमित्याह– आदन्तादेवेति।

Satishji's सूत्र-सूचिः

वृत्ति: सिज्लुकि आदन्तादेव झेर्जुस्। When the affix “सिँच्” has taken the “लुक्” elision, the substitution (by 3-4-109) of “जुस्” in place of the affix “झि” shall take place only following a verbal root ending in a आकार:।

उदाहरणम् – अभूवन् derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

भू + लुँङ् 3-2-110
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + च्लि + झि 3-1-43
= भू + सिँच् + झि 3-1-44
= भू + झि 2-4-77, 1-1-61. Now 3-4-110 stops 3-4-109 because “भू” does not end in a आकार:।
= भू + झ् 3-4-100
= भू + अन्त् 7-1-3
= भू वुक् + अन्त् 6-4-88, 1-1-46
= भू व् + अन्त् 1-3-3, 1-3-9. Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)
= अट् भूवन्त् 6-4-71, 1-1-46
= अभूवन्त् 1-3-3, 1-3-9
= अभूवन् 8-2-23