TBD.
ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋ\उ0304कारान्तानां च लिटि परतो गुणो न भवति। ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। ऋ आरतुः, आरुः। ऋ\उ0304कारान्तानाम् निचकरतुः, निचकरुः। निजगरतुः, निजगरुः। ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ऋ\उ0304तां तु प्रतिषिद्धः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। निचकार। निजगार।
TBD.
617 तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि. पपरतुः. पपरुः..
220 ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषे `अत आदे'रिति दीर्घे आ ऋ अतुस्? इति स्थिते `असंयोगा'दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह– ऋच्छत्यृ?ताम्। `दयतेर्दिगि लिटी'त्यतो लिटीति,` ऋतश्च संयोगादेर्गुण' इत्यतो गुण इति चानुवर्तते। ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम्। बहुवचनादेव ऋकारप्रश्लेषो गम्यते। प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणे `ऋतश्च संयोगादेर्गुणः' इत्यस्य वैयथ्र्यात्। `ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य `ऋच्छती'त श्तिपा निर्देशः। भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः। तदाह– तौदादिकस्येत्यादिना। किदर्थमपीदं सूत्रं परतवादकित्यपि भवति। णलि प्राग्वदिति। `ह्व कौटिल्ये' इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणः `अचो ञ्णिती'ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः। आरेति। ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषे `अत आदे'रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः। आरतुरिति। पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते `ऋच्छत्यृ?ता'मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः। आरुरित्यप्येवम्।
192 प्राग्वदिति। किदर्थमारब्धोऽपि गुणः परत्वाण्णल्यपि भवति। रपरत्वम्। तत उपधावृद्धिरित्यर्थः।
वृत्ति: घे: परस्याङो ना स्यादस्त्रियाम् । तौदादिक-ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि। When a लिँट् affix follows, there is a गुण: substitution in place (of the इक् letter - ref 1-1-3) of the verbal roots √ऋच्छ् (ऋच्छँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६), √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) and any verbal root that ends in a ॠकार:।
उदाहरणम् – आरु: (ऋ गतिप्रापणयोः १. १०८६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।
ऋ + लिँट् 3-2-115
= ऋ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= ऋ + उस् 3-4-82
= ऋ ऋ + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-4-11.
= अ ऋ + उस् 7-4-60
= आ ऋ + उस् 7-4-70
= आ अर् + उस् 7-4-11, 1-1-51. Note: “उस्” is a कित् by 1-2-5. Hence in the absence of 7-4-11, गुण: would not have been possible (by 7-3-84) because 1-1-5 would have blocked it.