Table of Contents

<<1-1-50 —- 1-1-52>>

1-1-51 उरण् रपरः

प्रथमावृत्तिः

TBD.

काशिका

उः स्थाने अण् प्रसज्यमान एव रपरो वेदितव्यः। कर्ता। हर्ता। किरति। गिरति। द्वैमातुरः। त्रैमातुरः। उः इति किम्? खेयम्। गेयम्। अन्ग्रहणं किम्? सुधातुरकङ् च 4-1-97 सौधातकिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

29 ऋ इति त्रिंशतः संज्ञेत्युक्तम्. तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते. कृष्णर्द्धिः. तवल्कारः..

बालमनोरमा

71 लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यं, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते–उरण्रपरः। इत्युक्तमिति। `अणुदित्सूत्रे' इति शेषः। उरिति `ऋ'इत्यस्य षष्ठ\उfffदेकवचनम्। `षष्ठी स्थाने' इति परिभाषया स्थाने इति लभ्यते। अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततो।ञनुवर्तते। तदाह– तत्स्थाने योऽणिति। `स्थानेऽन्तरतम' इत्यतो।ञपि स्थानेग्रहणमनुवर्तते। स्थानं प्रसह्ग इत्युक्तम्। प्रसङ्गावस्थायामित्यर्थो विवक्षितः। तदाह–रपरः सन्नेव प्रवर्तत इति। अत्र `र' इति प्रत्याहारो विवक्षितः। ततश्च रेफशिरस्को लकारशिरस्कश्च प्रवर्तत इति लभ्यते। तयोव्र्यवस्थां दर्शयति–तत्रेति। रेफलकारशिरस्कयोर्मध्ये कृष्णर्दिं?धरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः। कुत इयं व्यवस्थेत्यत आह–आन्तरतम्यादिति। त्रिषु गुणेषु प्रसज्यमानेषु अकारस्याऽणो रेफलकारशिरस्कतया तस्य अर् अलित्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारेण रेफांशे ऋकारेण, लकारांशे लृकारेण च स्थानसाम्यादकारञकारयोः स्याने अरेव भवति। अकारलृकारयोः स्थानेऽलेव भवति। एकारोकारौ तु गुणौ न भवत एव, तयोरृकारेण लृकारेण च स्थानसाम्या।ञभावादित्यर्थः। नच एकार ओकारश्च कथं रपरो न स्यातामिति वाच्यं, पूर्वेणैव णकारेण ह्रत्राण् गृह्रते, प्रशास्तृ?णामित्यादिनिर्देशादित्यलम्। झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम्। तत्र अरादेशे रेफात्परस्य धकारस्याऽचो रहाभ्यामिति कदाचिद्द्वित्वमित्यर्थः।

तत्त्वबोधिनी

58 उरण् रपरः। अनुवादे `षष्ठी स्थानेयोगे'ति परिभाषया अनुपस्थितावपि स्थानेग्रहणं ततोऽनुवर्तत इत्याशयेनाह-तत्स्थानेयोऽणिति। `स्थानेऽन्तरतमः' इत्यतोऽपि `स्थाने'ग्रहणमिहानुवर्तते। तेन प्रसङ्गावस्तायामेवाऽण् रपरो भवति। तदेतद्व्याचष्टे-रपरः सन्ने प्रवर्तत इति। उः किम् ?, `ईद्यति'-गेयम्, देयम्। अण् किम् ?, रीङादीनां रपरत्वं मा भूत्। `रीङृतः'-मात्रीयति। रिङ्-`क्रियते'। आन्तरतम्यादिति। रेफशिरस्कस्य `अ'रित्यस्य रेफद्वारेण ॠकारेण स्थानसाम्यादित्यर्थः। पक्षे द्वित्वमिति। ॠधेर्धस्येति भावः।

Satishji's सूत्र-सूचिः

वृत्ति: ऋवर्णस्थाने योऽण् स रपरः सन्नेव प्रवर्तते । In the place of ऋवर्ण: if an अण् letter (“अ/आ”, “इ/ई”, “उ/ऊ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

गीतासु उदाहरणम् – श्लोकः Bg14-19 – continued

कर्तृ + अम् – using the present rule the three choices for the substitute become “अर्”, “ए” and “ओ”। Considering the place of pronunciation we know that the closest substitute for “ऋ” is “अर्”।

कर्तृ + अम् = कर्तर् + अम् 7-3-110, 1-1-51 = कर्तारम् 6-4-11