Table of Contents

<<1-1-58 —- 1-1-60>>

1-1-59 द्विर्वचने ऽचि

प्रथमावृत्तिः

TBD.

काशिका

द्विर्वचननिमित्ते ऽचि अजादेशः स्थानिवद् भवति , द्विर्वचन एव कर्तव्ये। रूपातिदेशश्च अयं नियतकालः। तेन कृते द्विर्वचने पुनरादेश रूपम् एव अवतिष्ठते। आल्लोपौपधालोपणिलोपयणयवायावादेशाः प्रयोजनम्। आल्लोपःपपतुः। पपुः। आतो लोप इटि च 6-4-64) इति आकारलोपे कृते तस्य स्थानिवद्भावातेकाचो द्वे प्रथमस्य (*6,1.1 इति द्विर्वचनं भवति। उपधालोपःजघ्नतुः। जघ्नुः। गमहनजनखनघसां लोपः क्ङित्यनङि 6-4-98 इत्यौपधालोपे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति। णिलोपः आटिटत्। अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वादजादेर् द्वितीयस्य 6-1-2 इति टिशब्दस्य द्विर्वचनम् भवति। यण् चक्रतुः। चक्रुः। करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति। अयवायावादेशाः निनय, निनाय। लुलव, लुलाव। नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान् ने नै लो लौ इति द्विर्वचनं भवति। द्विर्वचने कऋतव्य इति किम्? जग्ले, मम्ले। श्रवणम् आकारस्य न भवति। द्विर्वचननिमित्ते इति किम्? दुद्यूषति। ऊठि यणादेशो न स्थानिवद् भवति। अचि इति किम्? जेघ्रीयते, देध्मीयते। ई घ्राध्मोः 7-4-31) यङि च (*7,4.30 इति ईकाराऽदेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान् न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

476 द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये. गोपायाञ्चक्रतुः..

बालमनोरमा

89 द्विर्वचनेऽचि। द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं। द्वित्वनिमित्तमिति यावत्। अचीत्यस्य विशेषणमिदम्। `अचः परस्मिन्नित्यतोऽच इति, `स्थानिवदादेश' इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते। द्विर्वचन इत्यावर्तते। एवं च `द्वित्वे कर्तव्ये सती' त्यपि लभ्यते। तदाह–द्वित्वनिमित्तेऽचीत्यादिना। `द्वित्वे कर्तव्ये सती'त्युक्तेः कृते द्वित्वे `चक्रे' इत्यादौ यणादयो भवन्ति। अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात्। द्वित्वनिमित्त इति किम् ?। दुद्यूषति। दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव। तथा च `द्यू' इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति। द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत। न तूकारः। `द्वित्वनिमित्ते' इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात्। अचीति किम् ?\त्। जेघ्रीयते। अत्र घ्राधातोर्यङि द्वित्वात्प्राक `ई घ्राध्मो'रितीकारादेशो न निषिध्यते। ईत्वस्य द्वित्वनिमित्त यङ्?निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात्। अचः किम् ?। असूषुपत्। इह स्वापेश्चङि द्वित्वात्प्राक् `स्वापेश्चङी'तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात्। ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति। संप्रसारणे निषिद्दे तु `स्वप्' इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत। एवं च प्रकृते यणादेशात्प्राग् `लिटि धातो'रिति द्वित्वे कृ कृ ए इति स्थिते–।

तत्त्वबोधिनी

70 अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते। यद्वा– उच्यत इति वचनं, द्विः– वचनं यस्मिन्नचि तद्द्विर्वचनम्। अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्। तदेतदाह– द्वित्वनिमित्तेऽचीति। इह `अचः परस्मि'न्नित्यतोऽच इति, `स्थानिवदादेशः' इत्यस्मादादेश इति, `न पदान्ते'त्यतो नेति चानुवर्तते। तदाह– अच आदेशो न स्यादिति। यद्यपीहि वृत्त्यादौ– `अजादेशः स्थानिवत्स्या'दिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु। `प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वर'मिति न्यायात्। `न पदान्ते'ति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः।\र्\निष्टानुरोदेन द्विर्वचन इत्यावर्त्त्य कालावधारणपरतयापि व्याचष्टे– द्वित्वे कर्तव्ये इति। कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः। द्वित्वनिमित्ते किम् ?। दुद्यूषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात्तदा दिद्यूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम्। नह्रूठ् द्वित्वनिमित्तम्। अचीति किम् ?। जेघ्रीयते। देध्मीयते। शाशय्यते। इह `ई घ्राघ्मो'रिति ईकारः, `अयङ् यि क्ङिती'त्ययहादेशस्च निषिध्येत, स माभूदिति प्राञ्चः। अन्ये त्वाहुः– अचीति व्यर्थं, घ्रीय्-ध्मीय्-शय्य् इति द्वितीयाऽजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमितत्वाऽभावादिति। अचः किम् ?। असूषुपत्। इह `स्वापेश्चङी'ति यत्संप्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रूयेत्। न च द्वित्वे कृते `यून' इत्यत्रेव `न संप्रसारणे' इति पूर्वस्य यणः संप्रसारणनिषेधात्। स्यादेतत्— चक्रतुरित्यत्र अच आदेशस्य निषेधाऽप्रवृत्त्या यण् स्यादेव। अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्याऽतथात्वात्। न च `द्विर्वचनेऽची'त्यस्य वैयथ्र्यं, चक्रे इत्यादौ सावकाशत्वात्। तथा चैकाच्त्वाऽभावात् `लिटि धातो'रितीह द्वित्वं न स्यादिति चेत्। मैवम्। इह द्वित्वनिमित्तशब्देनसाक्षाद्वा, समुदायघटकतया वा यद्द्वित्वप्रयोजकं, लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात्। एतच्च `ठस्येकः' इति सूत्रे कैयटे स्पष्टम्। तथा च ऊर्णोतेः सनि `सनीवन्ते'तीट् पक्षे `विभाषोर्णो'रिति ङित्त्वविरहे ऊर्णुनविषतीति सिद्धम्। सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन्परे प्राप्तयोर्गुणाऽवादेशयोर्द्वित्वे कर्तव्ये निषेधात्। अत एवाहुः– - `तद्भावबावितामात्रेणेह निमित्तत्व'मिति। एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुस अकारश्च द्वित्वनिमित्तमिति स्थितम्। नन्वेवम्, ऋदातोः सनि `स्मिपूङ्रञ्ज्वशां सनी'तीटि कृते इस्शब्दनिमित्तकस्य गुणस्य `द्विर्वचनेऽची'ति निषेधे `अजादेर्द्वितीयस्ये'ति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत्। रिस्?शब्दनिमित्तकस्य दित्वे तु यद्यपि सिध्यति तथापि गुणनिषेधे रिस्?शब्द एव दुर्लभ इति चेत्। अत्राहुः– गुणे रपरे कृते निमित्ततयाऽऽश्रीयते, `स्थण्डिलाच्छयितरिव्रते' इति ज्ञापकात्। अन्यथा शीङो ङित्वेन `क्ङिति चे'ति गुणनिषेधाच्छयितरीति रूपस्याऽसिद्ध्यापत्तेः। न च `किति ङिति परे गुणवृद्धी ने'ति व्याख्यायमुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यं, तद्व्याख्यायां छिन्नं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्य `क्ङिति चे'ति सूत्र एवोपपादितत्वात्। न चैवं कार्यिणो निमित्तत्वाऽनाश्रयणे सन्नन्तस्य कार्यित्वातत्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादूर्णुनविषतीत्यपि न स्यादिति वाच्यं, मत्वर्थीयेनेनिना कार्यमनुभवत एवं कार्यित्वाऽलाभात्। ऊर्णोतेर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन्। अरिरिषतीत्यत्र तु रिस्?शब्दः कार्यभागिति वैषम्यादिति।

Satishji's सूत्र-सूचिः

वृत्तिः द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। While reduplication is yet to be done, a substitution shall not be made in the place of a vowel on the basis of a vowel that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place.

Example continued from above -

कृ + उस् = कृ कृ + उस् 6-1-8

Example continued under 7-4-66