Table of Contents

<<1-1-4 —- 1-1-6>>

1-1-5 क्क्ङिति च

प्रथमावृत्तिः

TBD.

काशिका

निमित्तसप्तम्येषा। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः, ते न भवतः। चितः, चितवान्। स्तुतः, स्तुतवान्। भिन्नः, भिन्नवान्। मृष्टः, मृष्टवान्। ङिति खल्वपि चिनुतः, चिन्वन्ति। मृष्टः, मृजन्ति। गकारो ऽपि अत्र चर्त्वभूतो निर्दिश्यते। ग्लाजिस्थश्च ग्स्तुः 3-2-139 जिष्णुः। भूष्णुः। इकः इत्य्म् एव कामयते, लैगवायनः। मृजेरजादौ सङ्त्रमे विभाषा वृद्धिरिष्यते। सङ्क्रमो नाम गुणवृद्धिप्रतिषेधविषयः। परिमृजन्ति,परिमार्जन्ति। परिमृजन्तु, परिमार्जन्तु। लघूपधगुणस्य अप्यत्र प्रतिषेधः। अचिनवम्, असुनवम् इत्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकम् ङिति यत्कार्यं तल्लकारे ङिति न भवति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

435 गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः. भूयात्. भूयास्ताम्. भूयासुः. भूयाः. भूयास्तम्. भूयास्त. भूयासम्. भूयास्व. भूयास्म.

बालमनोरमा

65 क्ङिति च। ग्? क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात्। ग् क् ङ् च इत् यस्येति विग्रहः। द्वन्द्वान्ते श्रूयमाण इत्यर्थ। इक इत्युचार्य विहिते इति लभ्यते। `न धातुलोप आद्र्धधातुके' इत्यतो नेत्यनुवर्तते। तदाह–गित्किन्ङिन्नमित्ते इत्यादिना। गितीत्यनुक्तौ तु `ग्लाजिस्थश्च ग्स्नु'रिति ग्स्नुप्रत्यये `जिष्णु'रित्यत्र गुणनिषेधो न स्यात्। न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सति `घुमास्थे'ति किति विहितस्य ईत्वस्य प्रसङ्गात्। यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात्। स्थानिभूतस्येको हला व्यवधानात्। न च येन नाव्यवधानन्यायः शङ्क्यः। चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात्। यदि च `इको गुणवृद्धी' इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम्। भूयादिति। इहाद्र्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम्। न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम्। भूयास्तामिति। आशिषि लिङस्तस्तामादेशे आद्र्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च। भूयासुरिति। झेर्जुसि यासुडागमे गुणनिषेधे रूपम्। भूया इति। आशीर्लिङः सिपि इतश्चेतीकारलोपः। यासुटः `स्को'रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ। भूयास्तमिति। थसस्तमादेशे यासुटि गुणनिषेधः। एवं थस्य तादेशेऽपि भूयास्तेति रूपम्। भूयासमिति। मिपोऽमादेशे यासुटि गुणनिषेधः। भूयास्वेति। लिङो वस्। `नित्यं ङित' इति सकारलोपः। यासुट्। गुणनिषेधः। एवं मसि भूयास्मेति रूपम्। इत्याशीर्लिङ्?प्रक्रिया।

तत्त्वबोधिनी

50 ङिन्निमित्ते इति। `कितिगितिङिति परे इको गुणवृद्धी न स्त' इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्याऽनिषेधप्रसङ्गात्। नचाऽऽरम्भसामथ्र्यं शङ्क्यं, चितं स्तुतमित्यादाव्वयवहिते किति चरितार्थत्वादिति भावः। अन्ये तु– क्ङितीति प्रत्ययग्रहणात्प्रत्ययेन संनिधापितस्याऽह्गस्य क्ङिति पर इति व्याख्यानेन तु छिन्नं भिन्नमित्यादि सिध्यत्येव। नचैवं भवावः भवाम प्रश्लिष्यत इत्याशयेन `गित्किन्ङिन्निमित्ते' इत्युक्तम्। गिति किम् ?। `ग्लाजिस्थश्च ग्स्नु' जिष्णुः। किति त्वस्मिन्स्थास्नुरित्यत्र `घुमास्थे'तीत्त्वं प्रसज्येत। न ग्स्नोर्गित्त्वे भूष्णुरित्यत्रेण्निषेधो न स्यात्, `ग्लाजिस्थश्चे'ति चकाराद्भुवश्च ग्स्नुर्भवतीति स्वीकारादिति वाच्यम्, `श्र्युकः किती'त्यत्रापि चर्त्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात्। न चैवं चत्र्वस्याऽसिद्धतया `श्र्युकः' इत्यत्र विसर्जनीयो न लभ्यत इति `हशि चे'त्युत्वमेव स्यादिति वाच्यं, सौत्रत्वात्। `न मु ने'त्यत्यत्र नेति योगविभागेनाऽसिद्धत्वाऽभावाद्वेष्टसिद्धेः। वामनस्तु–`ग्लाजिस्थश्चे'ति सूत्रे स्था- आ इति प्रश्लेषात्स्थास्नुरित्यत्र `घुमास्थे'तीत्वं न भविष्यतीति गकारप्रश्लेषाऽभावान्न `श्र्युकः किती'त्यत्र चत्र्वस्याऽसद्धत्वाऽभावसमर्थनक्लेश इत्याह। इग्लक्षण इति। `इक' इत्येवं विहिते इत्यर्थः। इग्लक्षणे किम् ?। लैगवायनः। लिगोर्नडादित्वात्फक्। इहादिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः। न चेक इत्युक्तेऽपि `किति चे'त्यारम्भसामथ्र्यादत्र निषेधो न भवेदिति शङ्क्यम्, नाडायनादौ तस्य चरितार्थत्वात्। भूयादिति। इह `स्को'रिति लोपस्याऽसिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनाऽनवकाशेन बाध्यते। नन्वेवमपि संयोगादिलोपस्य `पूर्वत्रासिद्ध'मित्यसिद्धत्वाद्धल्ङ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादितिचेत्, अत्राहुः– - सुड\उfffदासुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावात्, हलन्तायाः प्रकृतेः परत्वाऽभावाच्चोक्तदोषशङ्कैव नास्तीति।

Satishji's सूत्र-सूचिः

335) क्क्ङिति च 1-1-5
वृत्तिः गित्‍किन्‍ङिन्निमित्ते इग्‍लक्षणे गुणवृद्धी न स्‍तः । An affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel (reference 1-1-3 इको गुणवृद्धी)।

Example continued from above:

शृ + नु + ति
The प्रत्यय: “नु” is ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ”
= शृ + नो + ति 7-3-84 = शृणोति (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

द्वितीयम् उदाहरणम्।

शृणुतः (√श्रु-धातुः, लँट्, प्रथम-पुरुषः, द्विवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3 = श्रु + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-4, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + तस् 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + तस् 1-3-8. Both “नु” as well as “तस्” are ङिद्वत् by 1-2-4. Therefore 1-1-5 prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
= शृणुतः 8-2-66, 8-3-15, (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।