Table of Contents

<<7-4-9 —- 7-4-11>>

7-4-10 ऋतश् च संयोगादेर् गुणः

प्रथमावृत्तिः

TBD.

काशिका

ऋकारान्तस्य अङ्गस्य संयोगादेः गुणो भवति लिटि परतः। स्वृ सस्वरतुः। सस्वरुः। ध्वृ दध्वरतुः। दध्वरुः। स्मृ सस्मरतुः। सस्मरुः। ऋतः इति किम्? चिक्षियतुः। चिक्षियुः। संयोगादेः इति किम्? चक्रतुः। चकृउः। प्रतिषेधविषये ऽपि गुणो यथा स्यातित्ययम् आरम्भः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। सस्वार। सस्मार। लिटि इत्येव, स्मृतः। स्मृतवान्। संयोगादेर् गुणविधाने संयोगोपधग्रहणं कृञर्थं कर्तव्यम्। सञ्चस्करतुः, सञ्चस्करुः इति। अत्र हि पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण इत्यत्र दर्शने लिति कृते, तदाश्रये च द्विर्वचने, पश्चादुपसर्गयोगे सति, अडभ्यासव्यवाये ऽपि 6-1-136 इति सुत् क्रियते। एवं च कृत्वा संस्कृषीष्ट, उपस्कृषीष्ट इत्यत्र सुटो बहिरङ्गलक्षणस्य असिद्धत्वातृतश्च संयोगादेः इति इडागमो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

498 ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि. उपधाया वृद्धिः. जह्वार. जह्वरतुः. जह्वरुः. जह्वर्थ. जह्वरथुः. जह्वर. जह्वार, जह्वर. जह्वरिव. जह्वरिम. ह्वर्ता..

बालमनोरमा

216 ऋतश्च। लिटीति। `दयतेर्दिगि लिटी'त्यतस्तदनुवृत्तेरिति भावः। ननु तिप्सिप्मिप्सु सार्वधातुकार्धधातुकयोरित्येव गुणे सिद्धे किमर्थमिदमित्यत आह- - किदर्थमपीदमिति। अतुसादिकिदर्थं णलाद्यकिदर्थं चेत्यर्थः। ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वाण्णलि `अचो ञ्णिती'ति वृद्धिप्रसङ्गात्कथं णल्ययं गुण इत्यत आह– परत्वाण्णल्यपि भवतीति। `अचो ञ्णिती'ति वृद्ध्यपेक्षया अस्य गुणस्य परत्वादित्यर्थः। तर्हि `जह्वारे'ति कथमित्यत आह– उपधावृद्धिरिति। `अत उपधाया इत्यनेने'ति शेषः। जह्वर्थेति। क्रादिनियमप्राप्तस्य इटः `अचस्तास्व'दिति, `ऋतो भारद्वाजस्ये'ति च निषेधादत भावः। जह्वरथुः जह्वर। जह्वार-जह्वर जह्वरिम। क्रादिनियमादिट्। ह्वरतु। अह्वरत्। ह्वरेत्।

तत्त्वबोधिनी

406 रीगृदुपधस्य च। ऋदिति किम् ?। चेकीत्र्यते। णिजभावपक्षे एकाच्त्वाद्यङ्।

Satishji's सूत्र-सूचिः

वृत्तिः ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। A अङ्गम् which begins with a संयोग: (conjunct consonant) and ends in a ऋकार: takes गुण: when followed by a लिँट् affix. (As per 1-1-52, the ending ऋकार: of the अङ्गम् takes गुण:।)

उदाहरणम् – सस्मरु: (स्मृ चिन्तायाम् १. १०८२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

स्मृ + लिँट् 3-2-115
= स्मृ + ल् 1-3-2, 1-3-3, 1-3-9
= स्मृ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= स्मृ + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= स्मृ स्मृ + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-4-10.
= स्मर् स्मृ + उस् 7-4-66, 1-1-51
= स स्मृ + उस् 7-4-60
= स स्मर् + उस् 7-4-10, 1-1-51. Note: “उस्” is a कित् by 1-2-5. Hence in the absence of 7-4-10, गुण: would not have been possible (by 7-3-84) because 1-1-5 would have blocked it.
= सस्मरु: 8-2-66, 8-3-15