TBD.
परिभाषा इयं स्थानिनियमार्था। अनियमप्रसङ्गे नियमो विधीयते। वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ। वक्ष्यति सार्वधातुकार्धधातुकयोः 7-3-84 अङ्गस्य गुण इति। स इको एव स्थाने विदितव्यः। नयति। भवति। वृद्धिः खल्वपि अकार्षीत्। अहार्षीत्। अचैषीत्। अनैषीत्। अलावीत्। अस्तावीत्। गुणवृद्धी स्वसंज्ञया विधीयेते, तत्र इकः इति एतदुपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीयया षष्ठी प्रादुर्भाव्यते। मिदिमृजिपुगन्तलघौउपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग् विशेष्यते। जुसि सार्वधातुकाऽदिगुणेषु इकाङ्गं विशेष्यते। मेद्यते। अबिघयुः। इकः इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत्। यानम्। ग्लायति। उम्भिता। पुनर् गुणवृद्धिग्रहणं स्वसंज्ञ्या विधाने नियमार्थम्। इह मा भूत् द्यौः, पन्थाः, सः, इमम् इति।
TBD.
–
36 इको गुणवृद्धि। `इक' इति षष्ट\उfffद्न्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः। सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ। `इकस्'शब्द इत्यर्थः। `उपतिष्ठते' इति शेषः। `वृद्धिरादैच्' `अदेङ्गुणः' इत्यतो वृद्धिरिति गुण इति चानुवर्तते। इतिशब्दोऽध्याहार्यः। `यत्र विधीयते तत्रे'त्यप्यध्याहार्यम्। गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठ\उfffद्न्तं पदमुपतिष्ठत इति योजना। तदाह–गुणवृद्धिशब्दाभ्यामित्यादिना। उपतिष्ठत इति। सङ्गतं भवतीत्यर्थः। `उपाद्देवपूचासङ्गतिकरणे'त्यात्मनेपदम्। सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः। `सार्वधातुकार्धधातुकयोः', मिदेर्गुणः' इत्याद्युदाहरणम्। इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति। `यत्र विधीयेते' इत्युक्त्या `वृद्धिर्यस्याचा'मित्याद्यनुवादे इक इति नोपतिष्ठते। अनुवादे परिभाषामनुपस्थितेः। `त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात्।
30 इको गुणवृद्धी। यत्र साक्षात्स्थानी न निर्दिष्टः `सार्वधातुकाद्र्धधातुकयोः' `सिचि वृद्धि' रित्यादौ, तत्रैवेयं परिभाषा प्रवर्तते नतु `अचो ञ्णिती'त्यादौ, स्थानिनिर्देशात्। गुणवृद्धिशब्दाभ्यामिति। एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्त्य `गुणो वृद्धिरिति ये गुणवृद्धी' इति योजनया लभ्यते। तेनेह न `त्यदादीनामः' इमम्। `दिव औत्'द्यौः। विधीयेते इति। यत्र। त्वनुवादो `वृद्धिर्यस्याचामादि'रित्यादौ तत्रेक इति षष्ट\उfffद्न्तं नोपतिष्ठते, अनुवादे परिभाषाणामनुपस्थितेरिति भावः। `अनुवादे परिभाषाणा'मित्यस्यानूद्यमानविशेषणेष्वित्यर्थः। अनुपस्थितौ लिङ्गं फलं च- `उदीचामातः स्थाने' इत्यत्र स्फुटीकरिष्यते। षष्ठ\उfffद्न्तमिति। सूत्रे षष्ठ\उfffद्न्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकत्वात्सोर्लुकि `अत्वसन्तस्ये'ति दीर्धो नेति भावः। पदमिति। तच्च संभवति सामानाधिकरण्ये `इगन्तस्याङ्गस्ये'त्यादिक्रमेण संबध्यते। `मिदेर्गुणः' मृजेर्बृद्धिः' इत्यादौ तु सामानाधिकरण्याऽसंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते।
418) इको गुणवृद्धी 1-1-3
वृत्तिः वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इक एव स्थाने वेदितव्यौ। When a गुणः or वृद्धि: substitution is prescribed (without specifying the स्थानी - the term to be substituted) using the term “गुण” or “वृद्धि”, then it should be understood to be in place of a इक् letter only.
उदाहरणम् – नेनेक्ति √निज् (जुहोत्यादि-गणः, णिजिँर् शौच-पोषणयोः, ३. १२), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
निज् + लँट् 3-2-123
= निज् + ल् 1-3-2, 1-3-3
= निज् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= निज् + ति 1-3-3
= निज् + शप् + ति 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= निज् + ति 2-4-75 = निज् + निज् + ति 6-1-10
= नि + निज् + ति 7-4-60 = ने + निज् + ति 7-4-75
= ने + नेज् + ति 7-3-86 = ने + नेग् + ति 8-2-30
= ने + नेक् + ति 8-4-55 = नेनेक्ति।