Table of Contents

<<7-4-65 —- 7-4-67>>

7-4-66 उरत्

प्रथमावृत्तिः

TBD.

काशिका

ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति। ववृते। ववृधे। शशृधे। नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवम् आदौ अभ्यासविकारेषु अपवादो न उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

475 अभ्यासऋवर्णस्यात् प्रत्यये. रपरः. हलादिः शेषः. वृद्धिः. गोपायाञ्चकार. द्वित्वात्परत्वाद्यणि प्राप्ते —–.

बालमनोरमा

90 उरत्। उः–अदिति छेदः। `ऋ'इत्यस्य उरिति षष्ठ\उfffदेकवचनम्। `अत्र लोपोऽभ्यासस्ये'त्यस्मादभ्यासस्येत्यनुवर्तते। अङ्गस्येत्यधिकृतं। तद्वशात्प्रत्यये परत इति लभ्यते। प्रत्यये परत एव अङ्गसंज्ञाविधानात्। तदाह– अभ्यासऋवर्णस्येत्यादिना। रपरत्वमिति। अभ्यासऋवर्णादेशस्याऽकारस्योरण्?रपर इति रपरत्वमित्यर्थः। तथा च कर् कृ ए इति स्थिते। हलादिः शेष इति। रेफस्य निवृत्तिरिति भावः। प्रत्यये किमिति। अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः। वव्रश्चेति। `ओ व्रश्चू च्छेदने' , लिटि णल् द्वित्वं। लिट\उfffद्भ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः। उरत्। रपरत्वम्। हलादिः। शेषः। वव्रश्चेति रूपम्। अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्य `न सम्प्रसारणे सम्प्रसारण'मिति निषेधान्न सम्प्रसारममिति स्थितिः। उरदित्यत्र `प्रत्यये परत' इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतो `न सम्प्रसारणे सम्प्रसारण'मिति निषेधो न स्यादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः अभ्यासऋवर्णस्यात् स्यात् प्रत्यये परे। A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows.

Example continued from above -

कृ कृ + उस् = कर् कृ + उस् 7-4-66, 1-1-51
= चर् कृ + उस् 7-4-62
= च कृ + उस् 7-4-60
= चक्रुस् 6-1-77
= चक्रु: 8-2-66, 8-3-15