Table of Contents

<<7-4-59 —- 7-4-61>>

7-4-60 हलादिः शेषः

प्रथमावृत्तिः

TBD.

काशिका

अभ्यासस्य हलादिः शिष्यते, अनादिर् लुप्यते। जग्लौ। मम्लौ। पपाच। पपाठ। आट, आटतुः, आटुः। आदिशेषनिमित्तो ऽयम् अनादेर् लोपो विधीयते, तत्र अभ्यासजातेः आश्रयणात् क्वचिदपि वर्तमानो हलादिः अनदेः सर्वत्र निवृत्तिं करोति। अपरे तु ब्रुवते, शेषशब्दो ऽयं निवृत्त्या विशिष्टम् अवस्थानम् आह। तदवस्थानम् उक्तितो यद्यपि प्रधानम्, अविधेयत्वात् तु तदप्रधानम्। निवृत्तिरेव तु विधेयत्वात् प्रधानम्। तत्र अयम् अर्थो ऽस्य जायते, अभ्यासस्य अनादेर् हलो निवृत्तिः भवति इति। सा किम् इति आदेरविधेयां सतीम् अनिवृत्तिम् अपेक्षिष्यते इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

398 अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते. इति वलोपः..

बालमनोरमा

28 हलादिः शेषः। `अत्र लोपोऽभ्यासस्ये'त्यस्मादभ्यासस्येत्यनुवर्तते। शिष्यत इति शेषः, कर्मणि घञ्। शिषधातुरितरनिवृत्तिपूर्वकाविस्थितौ। तदाह- - अभ्यासस्येत्यादिना। इति वलोप इति। भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः।

तत्त्वबोधिनी

24 अभ्यासस्येति जातिपरो निर्देशस्तेन आटतुः आटुरित्यादौ तकारादिनिवृत्तिः सिध्यति, क्वचिदभ्यासे आदेर्हलः सत्त्वमाश्रित्य सर्वत्रानादेर्लोपविधानात्॥

Satishji's सूत्र-सूचिः

406) हलादिः शेषः 7-4-60
वृत्तिः अभ्‍यासस्‍यादिर्हल् शिष्‍यते, अन्‍ये हलो लुप्‍यन्‍ते । Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

उदाहरणम् – Example continued from above

पिर् + पॄ + ति = पि + पॄ + ति 7-4-60
= पिपर्ति 7-3-84, 1-1-51