TBD.
भूतानद्यतने इति वर्तते। तस्य विशेषणं परोक्षग्रहणम्। घूतानद्यतनपरोक्षे ऽर्थे वर्तमनाद् धात्ः लिट् प्रत्ययो भवति। ननु धात्वर्थः सर्वः परोक्ष एव? सत्यम् एतत्। अस्ति तु लोके धात्वर्थेन अपि कारकेषु प्रत्यक्षाभिमनः। स यत्र न अस्ति तत् परोक्षम् इत्युच्यते। चकार। जहार। उत्तमविषये ऽपि चित्तव्याक्षेपात् परोक्षता सम्भवत्येव। तद् यथा सुप्तो ऽहं किल विललाप। अत्यन्तापह्नवे च लिड् वक्तव्यः। कलिङ्गेषु स्थितो ऽसि? हानं कलिङ्गञ् जगाम। दक्षिणापथं प्रविष्टो ऽसि? नाहं दक्षिणापथं प्रविवेश।
TBD.
393 भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात्. लस्य तिबादयः.
21 परोक्षे लिट्। `अनद्यने ल'डित्यस्मादनद्यतन इत्यनुवर्तते। `भूते' इत्यधिकृतम्। परोक्षत्वं धात्वर्थविशेषमं, तदाह–भूतानद्यतनेत्यादिना। अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्?सूत्रभाष्ये कैयटे स्थितम्। परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके। वर्षसहरुआवृत्तत्वमित्यपरे। द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये। कुड\उfffद्कटाद्यन्तरितत्वमितीतरे। एते पक्षा भाष्ये स्थिताः। तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम्। लस्य तिबादय इति। तिबादिनवकमित्यर्थः।
17 यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव।उक्तं हि भाष्ये– `क्रिया नामेयमत्यन्ताऽपरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितु'मिति, तथापि तदनुकूलशक्तिमतां व्यापाराऽविष्टानां साधनानां परोक्ष्यमिह विव7#इतम्। तेन क्रियाऽनाविष्टसाधनमात्रप्रत्यक्षेऽपि लिङ्भवत्येव। अयं पपाच। त्वं पेचिथ॥ ननु क्रियाशब्दवाच्यादिश्रयणा[धः श्रयणा]दिव्यापाराणां युगपत्प्रत्यक्षविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः, ततश्च लिडुत्तमपुरुषो दुर्लभ इति चेत्। अत्राहु– - स्वव्यापारस्यापि वर्तमानतादशायां व्यासह्गादिना स्वयमप्रतिसन्धाने ततः कार्येणानुमितौ भवत्येव, `बहु जगद पुरस्तात्तस्य मत्ता किलाह'मितिवदिति।
TBD.