Table of Contents

<<6-1-7 —- 6-1-9>>

6-1-8 लिटि धातोरनभ्यासस्य

प्रथमावृत्तिः

TBD.

काशिका

लिटि परतो ऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पपाच। पपाठ। प्रोर्णुनाव। वाच्य ऊर्णोर्णुवद्भावः इति वचनादूर्णोतेः इजादेः इति आम् न भवति। लिटि इति किम्? कर्ता। हर्ता। धातोः इति किम्? ससृवांसो विशृण्विरे इम इन्द्राय सुन्विरे अनभ्यासस्य इति किम्? कृष्णो नोनाव वृषभो यदीदम् नोनूयतेर्नोनाव। समान्या मरुतः संमिमिक्षुः। लिटि उसन्तः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। यो जागार तमृचः कामयन्ते। दाति प्रियाणि इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

396 लिटि परेऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य. भूव् भूव् अ इति स्थिते –.

बालमनोरमा

26 लिटि धातोः। `एकाचो द्वे प्रथमस्ये\

तत्त्वबोधिनी

22 तदाह– आदिभूतादचः परस्य त्विति॥ भूव्भूविति। यद्यप्यत्र धात्ववयवत्वं प्राथम्यं च न सङ्गच्छते, तथापि व्यपदेशिवद्भावेन तद्बोध्यम्। नन्विह चत्वार एकाचस्तत्रावयवास्त्रयः, तत्र भू, ऊ, ऊविति। भूविति समुदायश्चतुर्थः। तथा चाऽनियमेन यस्य कस्यचिद्द्वित्वं स्यात्। मैवम्। समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यत्वात्, तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत्॥

Satishji's सूत्र-सूचिः

TBD.