TBD.
अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः। अतो गुणे पररूपत्वस्य अपवादः। आट, आटतुः, आटुः। आदेः इति किम्? पपाच। पपाठ।
TBD.
–
94 ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधाम् अस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते–अत आदेः। `अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तते। `दीर्घ इण' इत्यतो दीर्घ इति इति च। तदाह–अभ्यासस्येति। अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् `अ इवाचरति अती' त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते। एधामासेति। नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात्। एधामासतुरित्यादीति। एधामासुः। एधामासिथ। एधामासथुः। एधामास। एधामासिव। एधामासिम। इति लिट्प्रक्रिया। एधितेति। लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस्। लुटः प्रथमस्येति डा। टिलोपः। एधितेति रूपम्। दीधीवेवीटामिति लघूपधगुणो न। एधिताराविति। लुट आताम्। तास् इट्। आतामित्यस्य रौभावः। रि चेति सलोपः। एधितार इति। झस्य रस्। तास्। इट्। रि चेतिसलोपः। रुत्वविसर्गौ। एधितास इति। थासः से। तास् इट्। तासस्त्योरिति सलोपः। एधितासाथे इति। आथाम् टेरेत्वं।तास्। इट्।
73 पररूपापवाद इति। `अपवाद\
वृत्तिः अभ्यासस्यादेरतो दीर्घ: स्याल् लिटि परतः। (अतो गुणे पररूपत्वस्यापवादः।) A beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.
Note: This सूत्रम् is a अपवाद: (exception) for 6-1-97 अतो गुणे।
उदाहरणम् – आतु: (अतँ सातत्यगमने १. ३८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।
अत् + लिँट् 3-2-115
= अत् + ल् 1-3-2, 1-3-3, 1-3-9
= अत् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= अत् + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= अत् अत् + उस् 6-1-8
= आत् अत् + उस् 7-4-70
= आ अत् + उस् 7-4-60
= आतुस् 6-1-101
= आतु: 8-2-66, 8-3-15