Table of Contents

<<7-4-11 —- 7-4-13>>

7-4-12 शृ\उ0304दृ\उ0304प्रां ह्रस्वो वा

प्रथमावृत्तिः

TBD.

काशिका

शृ\उ0304 दृ\उ0304 पृ\उ0304 इत्येतेषां अङ्गानां लिटि परतो वा ह्रस्वो भवति। शृ\उ0304 विशश्रतुः, विशश्रुः। विशशरतुः, विशशरुः। दृ\उ0304 विदद्रतुः, विदद्रुः। विददरतुः, विददरुः। पृ\उ0304 निपप्रतुः, निपप्रुः। निपपरतुः, निपपरुः। ह्रस्ववचनम् इत्वोत्वनिवृत्त्यर्थम्। केचिदेतत् सूत्रं प्रत्याचक्षते। श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे इत्येतेषाम् अनेकार्था धातवः इति शृ\उ0304दृ\उ0304प्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति। तथा च सति क्वसौ विशशृवानित्येतद् रूपं न स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

616 एषां लिटि ह्रस्वो वा स्यात्. पप्रतुः..

बालमनोरमा

325 शृ?दृ?प्राम्। शृ? दृ? पृ? एषां द्वन्द्वः। लिटीति। `दयतेर्दिगि लिटीटत्यतस्तदनुवृत्तेरिति भावः। यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्टं तथापि अस्य `ऋच्छत्यृ?ता'मिति गुणाऽपवादत्वाद्गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम्। पप्रतुरिति। पपृ? अतुस् इति स्थिते ऋकारस्य ह्यस्वे तस्य यणिति भावः। गुणपक्षे आह—पपरतुरिति। गुण एव तु न विकल्पितः, गुणाऽभावे `वार्णादाङ्गं बलीयः' इति यणं बाधित्वा `उदोष्ठ\उfffदे'त्युत्त्वप्रसङ्गात्। पपरिथ पप्रथुः–पपरथुः पप्रपपर। पपार पपर पप्रिव पपरिव। `वृ?तो वा' इति दीर्घविकल्पं मत्वा आह—परिता परितेति। परिष्यति– परीष्यति। पिपर्तु–पिपूर्तात् पिपूर्ताम् पिपुरतु। पिपूर्हि–पिपूर्तात् पिपूर्तम् पिपूर्त। पिपराणि पिपराव पिपराम। लङ्याह- - अपिपरिति। अपि पृ? त् इति स्थिते गुणे रपरत्वे हल्ङ्यादिना तकारलोपे रेफस्य विसर्गः। अपिपरुरिति। अभ्यस्तत्वात् जुस्। कृते `जुसि चे'ति गुणे रपरत्वम्। अपिपः अपिपूर्तम् अपिपूर्त। अपिपरम् अपिपूर्व अपिपूर्म। केचिदिति। अन्ये आचार्या इत्यर्थः। ह्यस्वान्तत्वपक्षे `उदोष्ठ\उfffदे'त्युत्त्वं नेति मत्वा आह—पिपृत इति। ह्यस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि। पिपृहि। अपार्षीदिति। ह्यस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः। नन्वाचार्यान्तरसंमतं ह्यस्वान्तत्वं कुतोऽस्माभिरादर्तव्यमित्यत आह–पाणिनीयेति। पाणिनिसंमतदीर्घान्तत्वस्यैवाश्रयणे `तं रोदसी पिपृत'मित्यादौ `उदोष्ठ\उfffद्'त्युत्त्वापत्त्या'ऋकारस्य ह्यस्वस्य श्रवणाऽनापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादत्यर्थः। डुभृञिति। अनिडयम्। ञित्त्वादुभयपदी। श्लौ सति द्वित्वनादौ बिभर्तीत्यादि स्थितम्।

तत्त्वबोधिनी

281 शृ?दृ?प्रां। शृ? हिंसायाम्। दृ? विदारणे। इमौ क्र्यादी। पक्षे गुण इति। `ऋच्छत्यृ?ता'मित्यनेन। पप्रतुरिति। ह्यस्वपक्षे यण्। ननु ह्यस्वग्रहणमिह मास्तु, गुणानुवृत्त्या तस्यैव विकल्पोऽस्तु। तथा च यणादेसेन पप्रतुः शश्रतुरित्यादि सिध्यत्येव। गुणपक्षेतु पपरतुः शशरतुरित्याद्यपि सिध्यतीति चेत्, मैवम्। गुणाऽभावपक्षे `ऋत इद्धातो' रितीत्त्वप्रसङ्गात्। न चान्तरङ्गत्वाद्यणेव स्यादिति वाच्यं, वार्णादाङ्गसय् बलीयस्त्वात्। डुभृढ्। `ड्वितः क्रिः'। भृत्रिमम्।

Satishji's सूत्र-सूचिः

TBD.