TBD.
श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययम् आदेशो भवति। शृणोति, शृणुतः, शृ\उ0304ण्वन्ति।
TBD.
–
223 श्रुवः शृ च। `शृ' इति लुप्तप्रथमाकम्। चकारेण `स्वादिभ्यः श्नु'रिति सूत्रस्थः श्नुः समुच्चीयते। तदाह–श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति। शपोऽपवाद इति। अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता। श्नोर्हित्त्वादिति। `सार्वधातुकमपि'दित्यनेनेति भावः। शृणोतीति। तिपमाश्रित्य श्नोर्गुणः। तसादीनं ङित्त्वात् श्नोर्न गुणः। तदाह–शृणुत इति।
195 श्रुवः शृ च। यद्ययं श्रुधातुः स्वादौ पठ\उfffदेत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः।
333) श्रुवः शृ च । 3-1-74
वृत्तिः श्रुवः “शृ” इत्यादेशः स्यात् श्नुप्रत्ययश्च शब्विषये। The श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”।
Note: This सूत्रम् is an अपवाद: for 3-1-68 कर्तरि शप्।
गीतासु उदाहरणम् – आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् || 2-29||
शृणोति (√श्रु-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
श्रु + लँट् 3-2-123 = श्रु + ल् 1-3-2, 1-3-3 = श्रु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शृ + श्नु + ति 3-1-74, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = शृ + नु + ति 1-3-8.
Example continued below