Table of Contents

<<6-1-94 —- 6-1-96>>

6-1-95 ओमाङोश् च

प्रथमावृत्तिः

TBD.

काशिका

आतित्येव। अवर्णान्तातोमि आङि च परतः पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। का ओम् इत्यवोचत्, कोम् इत्यवोचत्। योम् इत्यवोचत्। आगि खल्वपि आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। वृद्धिरेचि 6-1-88 इत्यस्य पवादः। इह तु आ ऋश्यातर्श्यात्, अद्य अर्श्यातद्यर्श्यातिति अकः सवर्णे दीर्घत्वं बाधते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

204 असम्बुद्धौ सर्वनामस्थाने परे. क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः..

बालमनोरमा

80 ओमाङोश्च। ओम् च आङचेति विग्रहः। आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो'रिति च। तदाह–ओमीत्यादिना। शिवार्योनम इति। अत्र वृदिं?ध बाधित्वा पररूपम्। शिवहीति। आःइहीति स्थिते गुणे `एही'ति रूपम्। ततः शिव-एहि इति स्थिते वृदिं?ध बाधित्वा पररूपमेकारः। नच `शिव-अःइही'ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं, `धातूपसर्गयोः कार्यमन्तरङ्ग'मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात्। भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य- अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम्।

तत्त्वबोधिनी

68 शिवेहीति। ननु `शिव आ इही'त्यत्र सवर्णदीर्घे कृते पश्चादाद्गुणे च सिद्ध मिष्टं तत्किमाङ्ग्रहणेन ?। सत्यम्। `पूर्वं धातुरूपसर्गेण युज्यते' इति दर्शने `धातूपसर्गयोः कार्यमन्तरङ्ग'मिति पूर्वं गुणे कृते वृद्धिः स्यात्, तन्मा भूदित्याग्रहणम्।\र्\नव्यक्तानुकरणस्यात इतौ। यद्यपि `अतो गुणे' इति पूर्वसूत्रादत इत्यनुवर्त्त्याऽतो ग्रहणमिह त्यक्तुं शक्यं, तथापि पूर्वसूत्रे `अत'इति तपरकरणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकारपक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्राऽतो ग्रहणं कृतम्। व्याचष्टे-ध्वनेरिति। अनुकरणस्येति। परिस्फुटाऽकारादिवर्णस्येति भावः। तस्य चानुकरणत्वं किंचित्साम्येन बोध्यम्। पररूपस्याऽस्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह-पटत्-इतीदी।

Satishji's सूत्र-सूचिः

TBD.