TBD.
लिङः इत्येव। परस्मैपदविषयस्य लिङो यासुडागमो भवति, स च उदात्तो भवति, ङिच् च। सीयुटोऽपवादः। आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां सम्भवाद्, न आगमस्य। कुर्यात्,कुर्याताम्,कुर्युः। स्थनिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम् - लकाराश्रयङित्त्वम् आदेशानां न भवति इति। अचिनवम्। अकरवम्।
TBD.
428 लिङः परस्मैपदानां यासुडागमो ङिच्च..
58 अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते–यासुट् पर। `लिङ सीयु'डित्यतो लिङ इत्यनुवर्तते। षष्ठ\उfffद्र्थे सप्तमी। तदाह–लिङः परस्मैपदानामिति। सीयुटोऽपवादः। यासुटि टकार इत्, उकार उच्चारणार्थः। टित्त्वात्तिबादीनामाद्यवयवः। अवयवे ङित्त्वं च `आनर्थक्यात्तदङ्गेषु' इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति। `आगमा अनुदात्ता' इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम्। इदमेव वचनम् `आगमा अनुदात्ता' इत्यत्र ज्ञापकमिति भाष्यम्। स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम्। ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्?व्यर्थः। न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः, `घुमास्थागापाजहातिसां हली'ति क्ङिति विहितस्य ईत्वस्य `न ल्यपी'ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह– ङित्त्वोक्तेरिति। क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति। यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः। तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः। ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः। अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात्। ननु `क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध' इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम्। अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्?सिप्?मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्?मिपां ङित्त्वं स्थानिवत्त्वलभ्यम्। `हलश्श्नश्शानज्झा'विति सूत्रभाष्ये `ङिच्च पिन्न पिच्च ङिन्ने'ति प्रपञ्चितत्वादित्यस्वरसादाह–श्नः शानचः शित्तवमपीह लिङ्गमिति। इह–अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः– श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं–ज्ञापकमित्यर्थः। अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्?वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः। अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम्।
43 क्वचिदिति। ज्ञापनफलं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इति `टिड्ढे'ति सूत्र एवोक्तम्। `रुया'दित्यादौ `उतो वृद्धिर्लुकि हली'ति न प्रवर्तते, भाष्ये `पिच्च ङिन्न, ङिच्च पिन्ने'ति व्याख्यानाद्विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधादित्यदादौ वक्ष्यमाणतया यासुतटो ङित्त्वं न ज्ञापकमित्यपरितोषादाह– श्नः शानचः शित्त्वमिति॥
313) यासुट् परस्मैपदेषूदात्तो ङिच्च 3-4-103
वृत्तिः लिङः परस्मैपदानां यासुडागमो ङिच्च । The परस्मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्।
Note: In the यासुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थम्।
उदाहरणम् – भवेत् (√भू-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, एकवचनम्)
भू + लिँङ् 3-3-161 = भू + ल् 1-3-2, 1-3-3
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ति 1-3-3 = भू + त् 3-4-100 = भू + यासुट् त् 3-4-103, 1-1-46 = भू + यास् त् 1-3-3
= भू + शप् + यास् त् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + यास् त् 7-3-84 = भो + अ + यास् त् 1-3-3, 1-3-8 = भव यास् त् 6-1-78
Example continued below