Table of Contents

<<3-4-107 —- 3-4-109>>

3-4-108 झेर् जुसू

प्रथमावृत्तिः

TBD.

काशिका

लिङः इत्येव। लिङादेशस्य झेर् जुसादेशो भवति। झो ऽन्तापवादः। पचेयुः। यजेयुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

432 लिङो झेर्जुस् स्यात्. भवेयुः. भवेः. भवेतम्. भवेत. भवेयम्. भवेव. भवेम..

बालमनोरमा

62 अथ लिङो झेर्झोऽन्त इति प्राप्ते–झेर्जुस्। लिङः सीयुडित्यतो लिङ इत्यनुवर्तते। तदाह– लिङो झेरिति। अनेकाल्त्वात्सर्वादेशः। ज इदिति। जुसः स्थानिवत्त्वेन प्रत्ययत्वाच्चुटू इति जकार इत्संज्ञक इत्यर्थः। उसि शपिगुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूपप्रवृतिं?त शङ्कितुमाह–उस्यप। एकः पूर्व्परयोरित्यधिकृतम्। आद्गुण इत्यस्मादादित्यनुवर्तते। `एङि पररूप\

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

317) झेर्जुस् 3-4-108

वृत्तिः लिङो झेर्जुस् स्‍यात् । The affix “झि” of लिङ् is replaced by “जुस्”।

उदाहरणम् – भवेयुः (√भू-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, बहुवचनम्)
भू + लिङ् 3-3-161 = भू + ल् 1-3-2, 1-3-3
= भू + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + जुस् 3-4-108, जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= भू + उस् 1-3-7, 1-3-4
= भू + यासुट् उस् 3-4-103, 1-1-46 = भू + यास् उस् 1-3-3
= भू + शप् + यास् उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + यास् उस् 7-3-84 = भो + अ + यास् उस् 1-3-3, 1-3-8
= भव यास् उस् 6-1-78 = भव इय् उस् 7-2-80 = भवेयुस् 6-1-87 = भवेयुः 8-2-66, 8-3-15