Table of Contents

<<6-1-96 —- 6-1-98>>

6-1-97 अतो गुणे

प्रथमावृत्तिः

TBD.

काशिका

अपदान्तातिति वर्तते। अकारातपदन्तात् गुणे परतः पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्ने दीर्घस्य अपवादः। पचे, यजे इत्यत्र वृद्धिरेचि इति वृद्धिः प्राप्नोति। अतः इति किम्? यान्ति। वान्ति। गुणे इति किम्? अपचे। अयजे। अपदान्तातित्येव, दण्डाग्रम्। युपाग्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

276 अपदान्तादतो गुणे पररूपमेकादेशः..

बालमनोरमा

190 अथ राम असिति स्थिते `अकः सवर्णे दीर्घ' इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे। `एङि पररूप' मित्यतः पररूपमित्यनुवर्तते। `उस्यपदान्ता'दित्यतोऽपदान्तादित्यनुवर्तते। `एकः पूर्वपरयो'रित्यधिकृतम्। `अत' इति पञ्चमी। तदाह–अपदान्तादित्यादिना। इति प्राप्त इति। नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः। परत्वादिति। अतो गुणे' इत्यपेक्षया `प्रथमयोः पूर्वसवर्ण' इत्यस्य परत्वादित्यर्थः। ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि। अनन्तरान्। अव्यवहितानित्यर्थः। उत्तरानिति। व्यवहितानित्यर्थः। `अतो गुण' इत्युत्तरम् अव्यक्तानुकरणस्येत्यादि पठित्वा, `अकःसवर्णे दीर्घः' `प्रथमयोः पूर्वसवर्णः' इति पठितम्। ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः। वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः। नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः। भवन्तीत्यादावप्राप्ते।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम्। रुत्वविसर्गौ सिद्धवत्कृत्याह–रामा इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

74) अतो गुणे 6-1-97

वृत्ति: अकारादपदान्ताद् गुणे परत: पूर्वपरयो: स्थाने पररूपमेकादेशो भवति । In the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Therefore त अ + ङे = त + ङे Now the next rule applies.