Table of Contents

<<6-1-15 —- 6-1-17>>

6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

प्रथमावृत्तिः

TBD.

काशिका

ग्रह उपादाने, ज्या वयोहानौ, वेञो वयिः 2-4-41, व्यध ताडने, वश कान्तौ, व्यच् व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङीति प्रत्यये परतः चकारात् कति च संप्रसारणं भवति। ग्रह गृहीतः। गृहीतवान्। ङिति गृह्णाति जरीगृह्यते। ज्या जीनः। जीनवान्। ल्वादिभ्यः 8-2-44 इति निष्ठानत्वम्। ङिति जिनाति। जेजीयते। हलः 6-4-2 इति सम्प्रसारणदीर्घे कृते प्वादीनां इति ह्रस्वः क्रियते। वयि लिटि परतः वेञो वयिः आदेशः, तस्य ङिदभावात् किदेवोदाह्रियते। ऊयतुः। ऊयुः। यद्येवं वयिग्रहणम् अनर्थकम्, यजादिषु वेञ् पठ्यते? न एवं शक्यम्। लिटि तस्य वेञः 6-1-40 इति प्रतिषेधो वक्ष्यते, तत्र यथा एव स्थानिवद्भावाद् व्येर्विधिः एवं प्रतिषेधो ऽपि प्राप्नोति? न एष दोषः। लिटि वयो यः 6-1-38 इति यकारस्य संप्रसारणप्रतिषेधाद् वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते? सत्यम् एतत्। एष एव अर्थः साक्षान् निर्देशेन व्येः स्पष्टीक्रियते। व्यध विद्धः। विद्धवान्। ङिति विध्यति। वेविध्यते। वश उशितः। उशितवान्। ङिति उष्टः। उशन्ति। व्यच विचितः। विचितवान्। ङिति विचति। वेविच्यते। व्यचेः कुटादित्वमनसि प्रतिपादितम्, तेन सर्वत्र अञ्णिति प्रत्यये सम्प्रसारणं भवति, उद्विचिता, उद्विचितुम्, उद्विचितव्यम् इति। व्रश्चेः वृक्णः। वृक्णवान्। अथ कथम् अत्र कुत्वं, व्रश्चभ्रस्ज इति हि षत्वेन भवितव्यम्? निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः। तत्र ष्त्वं प्रति नत्वस्य सिद्धत्वाद् ज्ञलादिर् निष्ठा न भवति। कुत्वे तु कर्तव्ये तदसिद्धम् एव इति प्रवर्तते कुत्वम्। ङिति वृश्चति। वरीवृश्च्यते। प्रच्छ पृष्टः। पृष्टवन्। ङिति पृच्छति। परीपृछ्यते। प्रश्नः। नङि तु प्रश्ने च आसन्नकाले 3-2-117 इति निपातनादसंप्रसारणम्। भ्रस्ज भृष्टः। भृष्टवान्। ङिति भृज्जति। बरीभृज्यते। सकारस्य ज्ञलां जश् ज्ञशि 7-4-53 इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः 8-4-40 इति श्चुत्वेन जकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

637 एषां सम्प्रसारणं स्यात्किति ङिति च. विध्यति. विव्याध. विविधतुः. विविधुः. विव्यधिथ, विव्यद्ध. व्यद्धा. व्यत्स्यति. विध्येत्. विध्यात्. अव्यात्सीत्.. पुष पुष्टौ.. 10.. पुष्यति. पुपोष. पुपोषिथ. पोष्टा. पोक्ष्यति. पुषादीत्यङ्. अपुषत्.. शुष शोषणे.. 11.. शुष्यति. शुशोष. अशुषत्.. णश अदर्शने.. 12.. नश्यति. ननाश. नेशतुः..

बालमनोरमा

243 ग्रहिज्या। चकारेण `वचिसवपियजादीना'मित्यतः कितीति समुच्चीयते। `ष्यङः संप्रसारण'मित्यनुवर्तते।तदाह–एषामित्यादि। अत्र परस्मैपदिग्रह्रादिसाहचर्यात् `अय वय पय [गतौ]' इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम्। यजादित्वादेव वयेः संप्रसारणे सिद्धे अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् [इति] यकारस्य प्राप्ते इति। `न संप्रसारणे संप्रसारण'मिति लिङ्गादन्त्यस्य यणः पूर्वं संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः।

तत्त्वबोधिनी

215 ग्रहिज्यावयि। गृह्णाति। गृह्णीतः। जिनाति। जिनीतः। जीनः। ङिति वयेरुदाहरणं नास्ति। किति तु `वचिस्वपियजादीना'मिति सिद्धम्, यजादिषु वेञः पाठात्। अत एवाऽभ्याससंप्रसारणमपि सिद्धम्। `वेञ' इति संप्रसारणनिषेधस्तु `लिटि वयो य' इति निषेधारम्भान्न प्रवर्तते। तस्माद्ग्रहिज्यादिषु वयिग्रहणं स्पष्टार्थमेवेति बोध्यम्।

Satishji's सूत्र-सूचिः

357) ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6-1-16

वृत्तिः एषां सम्‍प्रसारणं स्‍यात्‍किति ङिति च । The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

उदाहरणम् – गृह्यते (√ग्रह्, क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९. ७१), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
ग्रह् + लँट् 3-4-69, 3-2-123 = ग्रह् + ल् 1-3-2, 1-3-3
= ग्रह् + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = ग्रह् + ते 3-4-79
= ग्रह् + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= ग्रह् + य + ते 1-3-3 = ग् र् अ ह् + य + ते = ग् ऋ अ ह् + य + ते 6-1-16, 1-1-45 = गृह्यते 6-1-108