Table of Contents

<<8-4-39 —- 8-4-41>>

8-4-40 स्तोः श्चुना श्चुः

प्रथमावृत्तिः

TBD.

काशिका

सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः। स्तोः श्चुना इति यथासङ्ख्यम् अत्र नेष्यते। सकारस्य शकारेण, चवर्गेण, द्वाभ्याम् अपि सन्निपाते शकारो भवति। तवर्गस्य अपि च शकारेण, चवर्गेन च सन्निपाते चवर्गो भवति। आदेशे तु यथासङ्ख्यम् इस्यते, सकारस्य शकारः, तवर्गस्य च चवर्गः इति। सकारस्य शकारेण सन्निपाते वृक्षश्शेते। प्लक्षश्शेते। तस्य एव चवर्गेण वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षश्छादयति। प्लक्षश्छादयति। तवर्गस्य शकारेण अग्निचिच्छेते। सोमसुच्छेते। तस्य एव चवर्गेण अग्निचिच्चिनोति। सोमसुच्चिनोति। अग्निचिच्छादयति। सोमसुच्छादयति। अग्निचिज्जयति। सोमसुज्जयति। अग्निचिज्झकारः। असोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः। मस्जेः मज्जति। भ्रस्जेः भृज्जति। व्रश्चेः वृश्चति। यजेः यज्ञः। याचेः याच्ञा। शात् 8-4-44 इति प्रतिषेधो ज्ञापकः सङ्ख्यातानुदेशाभावस्य। स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यातिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

62 सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः. रामश्शेते. रामश्चिनोति. सच्चित्. शार्ङ्गिञ्जय..

बालमनोरमा

112 स्तोः श्चुना श्चुः। स् च तुश्चेति समाहारद्वन्द्वः। पुंस्त्वमार्षम्। इतरेतरयोगद्वन्द्वो वा, तथा सत्येकवचनमार्षम्। एवं `श्चुना श्चु' रित्यत्रापि। `श्चुने'ति सहार्थे तृतीया, `योगे' इत्यध्याहार्यं। ततश्च सहशब्दयोगाऽभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात्। तदाह-सकारतवर्गयोरिति। अत्र स्थान्यादेशानां यथासङ्ख्यं भवति। ततस्च सकारस्य शकारस्तवर्गस्य चवर्गः। तत्रापि त-थ-द-ध-ने त्यादिक्रमस्याप्यनादिलोकसिद्धत्वात्। `श्चुनायोगे'इत्यत्र न यथासंख्यमित्युत्तरसूत्रेवक्ष्यते, ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासंभवं योगे श्चुत्वं भवति। रामश्शेते इति। रामस्-शेते इति स्थिते शकारेण योगात्सकारस्य शकारः। `श्चुना योग इत्यत्र न यथासङ्ख्य'मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरति–रामश्चिनोतीति। रामस्-चिनोतीति स्थिते चवर्गयोगात्सकारस्य शकारः। `श्चुना योग' इत्यत्रापि यथासङ्ख्याश्रयणे तु इह सकारस्य शकारयोगा।ञभावाच्छकारो नस्यादिति भावः। सच्चिदिति। सत्-चिदिति स्थिते श्चुत्वस्यासिद्धत्वाज्जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, `खरि चे'ति चर्त्वेन तस्य चकारे च रूपम्। शा\उfffद्ङ्गञ्जयेति। शा\उfffद्ङ्गन्-जयेति स्थिते, चवर्गयोगान्नकारस्य श्चुत्वेन ञकारादेशः।

तत्त्वबोधिनी

92 स्तोः श्चुना श्चुः। `स्तो'रिति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम्। एवं `श्चुः' `ष्टु'रित्यपि बोध्यम्। श्चुनेति। `सह युक्ते-' इति सूत्रे `विनापि तद्योगं तृतीये'ति वक्ष्यमाणत्वात्तृतीया। योगे इति। एतदध्याहारलभ्यम्। अत्र स्थान्यादेशयोर्यथासङ्ख्यम्। निमित्तकार्यिणोस्तु न, `शा'दिति ज्ञापकात्। यथासङ्ख्यसूत्रमिह नोपन्यस्तम्, `स्थानेऽन्तरतमः' इत्यनेनापि इष्टसिद्धेर्नात्यन्तावश्यकत्वात्। हरिश्शेत इति। `वा शरी'ति पाक्षिकत्वाद्विसर्जनीयस्य शेन योगे शः, चवर्गयोगे `रामश्चिनोति'। तवर्गस्य तु चवर्गयोगे `सच्चि'दित्यादि। शेन योगे तु तच्शिव इत्याद्युदाहरिष्यति।

Satishji's सूत्र-सूचिः

21) स्तोः श्चुना श्चु: 8-4-40

वृत्ति: सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गादेशौ भवतः। When the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “श्” or a letter of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”), then it is replaced respectively by “श्”, च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”)।

गीतासु उदाहरणम् – श्लोकः bg1-1

पाण्डवास् + च = पाण्डवारु + च = पाण्डवाः + च = पाण्डवास् + च = पाण्डवाश्च