TBD.
लूञ् छेदने इत्येतत् प्रभृति वृ\उ0304ञ् वरणे इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते। तेभ्यः उत्तरस्य निष्ठातकारस्य नकारादेशो भवति। लूनः। लूनवान्। धूनः। धूनवान्। जीनः। जीनवान्। ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम्। कीर्णिः। गीर्णिः। शीर्णिः। लूनिः। पूनिः। दुग्वोर्दिर्घश्च इति वक्तव्यम्। दु आदूनः। दु विगूनः। पूञो विनाश इति वक्तव्यम्। पूना यवाः। विनष्टाः इत्यर्थः। विनाशे इति किम्? पूतम् धान्यम्। सिनोतेर् ग्रासकर्मकर्तृकस्य इति वक्तव्यम्। सिनो ग्रासः स्वयम् एव। ग्रासकर्मकर्तृकस्य इति किम्? सिता पाशेन सूकरी। ग्रासो ऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति, सितो ग्रासो देवदत्तेन इति।
TBD.
821 एकविंशतेर्लूञादिभ्यः प्राग्वत्. लूनः.. ज्या धातुः.. ग्रहिज्येति संप्रसारणम्..
–
680 एकविंशतेरिति। क्र्यादिषु प्वादयो द्वाविंशतिः पठ\उfffद्ते,तत्र पूञं विहाय ल्वादयो ज्ञेयाः। जीन इति। `हल' इति दीर्घः। सिद्धत्वान्नित्यत्वाच्च `ग्रहिज्ये' ति संप्रसारणे कृते `संयोगादेरातःर' इत्यस्याऽप्राप्तिः। गून इति। गु परीषोत्सर्गे। धातूनामनेकार्थत्वात्पूञ पवन इत्यस्य विनाशेऽपि वृत्तिः। सिनोतेग्र्रासकर्मकर्तृकस्य। सिनोतेरिति। षिञ् बन्धने। ग्रासरूपं कर्म ग्रासकर्म,तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः। सिनो ग्रास इति। पिण्डीक्रियमाणो ग्रासो यदा दध्यादिव्यञ्जनवशाद्बन्धनेऽनुकूलो भवति तदा कर्मण्येव कर्तृत्वमिति बोध्यम्। ग्रासेति किमिति ?। `ग्रास कर्मकर्तृकस्ये'ति किमर्थमित्यर्थः। कर्मकर्तृकेति किमिति। `ग्रासकर्मकस्ये'त्येवास्तु कर्तृपदं किमर्थमित्यर्थः। कर्मपदं विहाय `ग्रासकर्तृकस्ये'त्युक्तौ तु `ग्रासेन कण्ठः सित' इत्यत्रापि स्यादिति बोध्यम्।
वृत्तिः एकविंशतेर्लूञादिभ्यो निष्ठातस्य नः स्यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows any one of the 21 verbal roots (listed in order in the धातु-पाठ:) from √लू (लूञ् छेदने ९. १६) onwards. Note: Recall the 24 verbal roots प्वादय: (starting from √पू (पूञ् पवने ९. १४) in the धातु-पाठ:) referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः। √लू (लूञ् छेदने ९. १६) is the second verbal root in the list of प्वादय:। If we remove the first verbal root √पू (पूञ् पवने ९. १४) from the list of प्वादय: we get the list of ल्वादय: mentioned in this सूत्रम् 8-2-44. But then we should have 23 (= 24-1) verbal roots in the list of ल्वादय: and not 21. The reason for this discrepancy is that two of the verbal roots √झॄ and √धॄ are not found in some editions of the धातु-पाठ:। If we include these two then the प्वादय: list has 24 verbal roots and the ल्वादय: list has 23 (= 24-1). If we don’t include them then the प्वादय: list has 22 verbal roots and the ल्वादय: list has 21 (= 22-1).
उदाहरणम् – प्रातिपदिकम् “लून” derived from the verbal root √लू (लूञ् छेदने ९. १६).
लू + क्त 3-2-102, 3-4-70
= लू + त 1-3-8, 1-3-9. Note: 7-2-11 stops 7-2-35 and 1-1-5 stops 7-3-84.
= लून 8-2-44. “लून” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.