Table of Contents

<<3-2-116 —- 3-2-118>>

3-2-117 प्रश्ने च आसन्नकले

प्रथमावृत्तिः

TBD.

काशिका

भुतानद्यतनपरोक्षे इति वर्तते। तस्य विशेषणम् एतत्। प्रष्टव्यः प्रश्नः। आसनकाले पृच्छ्यमने भूतानद्यतनपरोक्षे ऽर्थे वर्तमानाद् धातोः लङ्लिटौ प्रत्ययौ भवतः। कश्चित् कञ्चत् पृच्छति। अगच्छद् देवदत्तः? जगाम देवदत्तः? अयजद् देवदत्तः? इयाज देवदत्तः? प्रश्ने इति किम्? जगाम देवदत्तः। आसनकाले इति किम्? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः?।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

601 प्रश्ने चासन्नकाले। `प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह- - प्रष्टव्यः प्रश्न इति। अर्थे इत्यन्तरं `वर्तमानाद्धातो'रिति शेषः। प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न्कालत्वम्। वृत्तौ तु पञ्चवर्षातीतकालोऽनासन्नकाल इत्युक्तम्।

तत्त्वबोधिनी

494 प्रश्ने चा। भूतानद्यतनपरोक्षे तु विप्रकृष्टकालमित्याहुः। पृच्छ्यमानैति। आसन्नकालिके भूतानद्यतनपरोक्षार्थवृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः। प्रश्ने किम् ?। भूतानद्यतनपरोक्षे लिडेव। जगाम चैत्रः।

Satishji's सूत्र-सूचिः

TBD.