Table of Contents

<<6-1-107 —- 6-1-109>>

6-1-108 सम्प्रसारणाच् च

प्रथमावृत्तिः

TBD.

काशिका

पूर्वः इत्येव। सम्प्रसारणातचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। यजि इष्टम्। वपि उप्तम्। ग्रहि गृहीतम्। सम्प्रसरणविधानसामर्थ्यात् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते। वा छन्दसि 6-1-106 इत्येव, मित्रो नो अत्र वरुणो यज्यमानः। परपूर्वत्वविधाने सत्यर्थवत् सम्प्रसारणविधानम् इति इष्ट इत्येवम् आदिषु पूर्वत्वभावे यणादेशो भवत्येव। अन्तरङ्गे च अचि इऋतार्थं वचनम् इति बाह्ये पश्चात् सन्निपतिते पूर्वत्वं न भवति। शकह्वौ। शकह्वर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

259 संप्रसारणादचि पूर्वरूपमेकादेशः. एत्येधत्यूठ्स्विति वृद्धिः. विश्वौहः, इत्यादि..

बालमनोरमा

संप्रसारणमिति। तेन वाहो यो यण् वकारस्तस्य ऊडिति लभ्यते। संप्रसारणमित्यननुवृत्तौ `अलोऽन्त्यस्य' इति हकारस्य स्यात्। तदनुवृत्तौ तु ऊठो यण्स्थानिकत्वूलाभान्नालोऽन्त्यस्येति भवति। वि\उfffदा ऊ आह् असिति स्थिते-। संप्रसारणाच्च। `इको यणची'त्यतोऽचीति `अमि पूर्वः' इत्यतः पूर्व इति चानुवर्तते। `एकः पूर्वपरयोः' इत्यधिकृतम्। तदाह–संप्रसारणादित्यादिना। वि\उfffदा ऊह असिति स्थिते आद्गुणमाशङ्क्याह–एत्येधत्यूठ्स्विति। `अनेन गुणापवादो वृद्धि'रिति शेषः। वि\उfffदाऔहः। वि\उfffदाऔहा। इत्यादीति। वि\उfffदावाड्भ्याम् वि\उfffदावाड्भिः। वि\उfffदावाड्भ्यः। वि\उfffदाऔहे। वि\उfffदाऔहः। वि\उfffदाऔहः। वि\उfffदाऔहोः वि\उfffदाऔहाम्। वि\उfffदावाट्त्सु वि\उfffदावाट्सु। ननु वहश्चेति ण्विविधौ `छन्दसि सहः' इत्यतश्छन्दसीति केचिदनुवर्तयन्ति। तन्मते वि\उfffदाआह्शब्दस्य लोके कथं प्रयोग इत्यत आह–छन्दस्येव ण्विरितिपक्षे णिजन्ताद्विजिति। वि\उfffदां वाहयतीत्यर्थे वाह् इ इति ण्यन्तात् `अन्येभ्योऽपि दृश्यते' इति विचि `नेड्वशि कृती'ति इडभावे णिलोपेऽपृक्तलोपे उपपदसमासे वि\उfffदाआह्शब्दो सोते प्रयोगार्हः। किन्तु तस्य ऊठ् न भवति, `अचः परस्मि'न्निति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽभावात्। वाहयतेः क्विपि वि\उfffदावाह्शब्दस्य तूठ् निर्हाध एव, `क्वौ लुप्त'मिति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽनपायात्। अत एव `विभाषा पूर्वाह्णापरह्णाभ्या'मिति सूत्रे प्रष्ठौह आगतं प्रष्ठवाङ्रूपर्यमिति लौकिकविग्रहवाक्ये `प्रष्ठौह' इति प्रयोगः सङ्गच्छते। क्वचित्पुस्तके `छन्दस्येव ण्विरिति प्रामाणिकाः' इति पठ\उfffद्ते। `कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः। अनः=शकटं वहतीत्यर्थे अनसि वहेः क्विप्, अनसो डश्चेति सस्य डश्च। `वचिस्वपियजादीनां किती'ति यजादित्वाद्वकारस्य सम्प्रसापरणमुकारः। `संप्रसारणाच्चे'ति पूर्वरूपम्। अनडुहिति रूपं। ततः सुबुत्पत्तिः।

तत्त्वबोधिनी

290 संप्रसारणाच्च। `अमि पूर्वः'इत्यतः `पूर्व'इति वर्तते' `इकोयणची'त्यतोऽचीति च, `एकः पूर्वपरयो'रिति ताधिक्रियते। तदाह—-संप्रसारणादचीत्यादिना।छन्दस्येव ण्विरिति। `वहश्चे'ति सूत्रे `भजो ण्विः'`छन्दसि सहः'इत्यतो ण्विप्रत्यस्य `च्छन्दसी'त्यस्य चाऽनुवृत्तेरिति भावः। स्यादेतत्–`वाहः'इत्येव सूत्रमस्तु, संप्रसारणमेवाऽन्न विधीयतां, तस्य लघूपधगुणो कृते `वृद्धिरेची'ति वृद्धौ सिद्धं `वि\उfffदाऔह'इत्यादि, किमूठ्ग्रहणेन?। सत्यम्। एवं स्थिते क्रियमाणमूठ्ग्रहणं बहिरङ्गपरिभाषां ज्ञापयति। तस्यां हि सत्यां जातस्य बहिरङ्गस्य संप्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम्। नन्वनकारान्तोपपदेऽकारान्तोपसर्गोपपदे च रूपे विशेषः स्यादिति कथमऋठग्रहणं ज्ञापकमिति चेत्, अत्राहुः कैयटादयः—भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाऽभावोऽनुमीयत इति। एतेन भुवं वहतीति भूवाट्। भूहः। भूहा। प्रौहः। प्रौहेत्यादिप्रयोगाः परास्ताः।

Satishji's सूत्र-सूचिः

206) सम्प्रसारणाच्च 6-1-108

वृत्ति: सम्प्रसारणादचि पूर्वरूपमेकादेशः। When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

उदाहरणम् continued – श् उ अन् + इ = श् उन् + इ 6-1-108 = शुनि