Table of Contents

<<6-4-1 —- 6-4-3>>

6-4-2 हलः

प्रथमावृत्तिः

TBD.

काशिका

अङ्गावयवाद् धलो यदुत्तरं सम्प्रसारणम् तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः। जीनः। संवीतः। हलः इति किम्? उतः। उतवान्। अङ्गावयवातिति किम्? निरुतम्। तदन्तस्य इति किम्? विद्धः। विचितः। अणः इत्येव, तृतीयः। तृतीया इति वा निपातनादत्र दीर्घाभावः। अङ्गग्रहणम् आवर्तयितव्यम् हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

822 अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः. जीनः..

बालमनोरमा

386 दिग्योगे पञ्चम्येषा। हलः परस्येति लभ्यते। `संप्रसारणस्ये'ति सूत्रमनुवर्तते। अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्त्त्यते। एकमवयवषष्ठ\उfffद्न्तं हल इत्यत्रान्वेति। अङ्गावयवाद्धल इति लभ्यते। द्वितीयं तु स्थानषष्ठ\उfffद्न्तं संप्रसारणेन विशेष्यते। तदन्तविधिः। `ढ्रलोपे' इत्यतो दीर्घ इत्यनुवर्तते। तदाह - - अङ्गावयवादित्यादिना। उदाहरणं तु – वीतः, शूनः, जीनः। हल इति किम् ?। उतः उतवान्। अङ्गावयवात् किम् ?। निरुतम्। तदन्ताङ्गस्येति किम् ?। विध्यति। एषामिति। व्रीभ्रीक्षीषामित्यर्थः। ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः। ज्ञा अवबोधने। शिति जादेशं स्मारयति – ज्ञाजनोर्जेति। दीर्घनिर्देशे'ति। प्वादित्वेऽपि आकारोच्चारणसामथ्र्यान्न ह्यस्व इति भावः। बन्ध बन्धने। अनिट्। नोपधः। बन्धातीति। `अनिदिता'मिति नलोप इति भावः। भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह– बबन्धिथ बबन्द्धेति। अकित्त्वान्नलोपो न। अनिट्पक्षे तु `झषस्तथो'रिति थस्य धः। बन्धेति। तासि।झषस्तथो'रिति तकारस्य धः। भन्त्स्यतीति। `एकाचः' इति बस्य भष्। धस्य चर्त्वेन तः। बधानेति। `हलः श्नः शानज्झौ' इति शानच्। अभान्त्सीदिति। हलन्तलक्षणावृद्धिः। भष्भावः। अबान्द्धामित्यत्र सकारपरकत्वाद्भष्भावमाशङ्क्याह– पूर्वत्रत्यादि। ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्भष् दुर्वार इत्यत आह- - प्रत्ययलक्षणेनेति। अबान्द्धामिति। `झषस्तथो'रिति तस्य धः। श्रन्थ विमोचने। श्रन्थिग्रन्थीत्यादिनेति। `श्रन्थिग्रन्थिदम्भिस्वञ्जीना लिटः कित्त्वं वे'ति व्याकरणान्तरेणेत्यर्थः। अस्मिन्नपि पक्षे इति। `पितामपीदं कित्त्व'मिति सुधाकरमतेऽपि प्रथमपुरुषणलि –शश्राथ। उत्तमपुरुषणलि तु शश्राय शश्रयेति माधव आहेत्यर्थः। तत्र मूलमिति। `कित्त्वपक्षे एत्त्वाभ्यालोपा'वित्यारभ्य `माधव' इत्यन्तसंदर्भे मूलं नास्तीत्यर्थः। संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकाऽदर्शनाच्चेति भावः। कुष निष्कर्षे।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः अङ्गावयवाद्धलः परं यत्‍संप्रसारणं तदन्‍तस्‍य दीर्घः । (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्।

उदाहरणम् – प्रातिपदिकम् “हूत” derived from the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३).

ह्वा + क्त 6-1-45, 3-2-102, 3-4-70
= ह्वा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= ह् उ आ + त 6-1-15
= ह् उ + त 6-1-108
= हूत 6-4-2, 1-1-52. “हूत” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.