Table of Contents

<<6-1-16 —- 6-1-18>>

6-1-17 लिट्यभ्यासस्य उभयेषाम्

प्रथमावृत्तिः

TBD.

काशिका

उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतो ऽभ्यासस्य सम्प्रसारणं भवति। वचि उवाच। उवचिथ। स्वपि सुष्वाप। सुष्वपिथ। यज इयाज। इयजिथ। डुवप् उवाप। उअवपिथ। ग्रह्यादीनाम् तत्र ग्रहेरविशेषः। जग्राह। जग्रहिथ। ज्या जिज्यौ। जिज्यिथ। वयि उवाय। उवयिथ। व्यध विव्याध। विव्यधिथ। वश उवाश। उवशिथ। व्यच विव्याच। विव्यचिथ। वृश्चतेः सत्यसति वा योगे न अस्ति विशेषः। योगारम्भे तु सति यदि सम्प्रसारणम् अकृत्वा हलादिशेषेण रेफो निवर्त्यते, तदा वकारस्य सम्प्रसारणं प्राप्नोति। अथ रेफस्य सम्प्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानी मुरदत्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् 6-1-37 इति प्रतिषेधो भवति इत्यस्ति विशेषः। वव्रश्च। वव्रश्चिथ। पृच्छति भृज्जत्योरविशेषः। अकिदर्थं च इदम् अभ्यासस्य सम्प्रसारणं विधीयते। किति हि परत्वाद् धातोः सम्प्रसारणे कृते पुनः प्रसङ्गविज्ञानाद् द्विर्वचनम्, ऊचतुः, ऊचुः इति। अधिकारादेव उभयेषां ग्रहणे सिद्धे पुनरुभयेषाम् इति वचनं हलादिः शेषम् अपि बाधित्वा सम्प्रसारणम् एव यथा स्यातिति। विव्याध।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

548 वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि. इयाज..

बालमनोरमा

241 णलि द्वित्वादौ तु ययाज् अ इति स्थिते– लिट\उfffद्भ्यासस्योभयेषाम्। `ष्यङः संप्रसारण'मित्यतः संप्रसारणमित्यनुवर्तते। `वचिस्वपियजादीना'मिति सूत्रोपात्ताः, `ग्रहिज्यावयी'ति सूत्रोपात्ताश्च उभयशब्देन गृह्रन्ते। तदाह–वच्यादीनां ग्रह्रादीनां चेति। अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः। `यज देवपूजेत्यारभ्य `टु ओ \उfffदिआ गतिवृद्ध्यो'रित्येतत्पर्यन्ता यजादयः। तदुक्तम्– `यजिवपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि। ह्वेञ् वदिः \उfffदायतिश्चैव यजाद्याः स्युरिमे नव'। इति। तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम्। ग्रह्रादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः। इयाजेति। अभ्यासयकारस्य संप्रसारणे इकारे `संप्रसारणाच्चे'ति पूर्वरूपमिति भावः।

तत्त्वबोधिनी

213 लिट\उfffद्भ्यासस्येति। वच्यादयो– वचिस्वपियजादयः। ग्रह्रादयस्तु- - `ग्रहिज्यावयी'त्यादयः। यद्यपि ग्रहिपृच्छतभृज्जतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते। जग्राह। पप्रच्छ। बभ्रज्ज। वृश्चतेस्तु विशेषः,— संप्रसारणस्याऽकरणे वव्रश्चेत्यत्र वकारस्य संप्रसारणं स्यात्, कृते तु संप्रसारणे `न संप्रसारणे' इति निषेधप्रवृत्तिरिति। लटीति किम् ?। विवक्षति। पिपक्षति। वचिस्वपि। आगणान्ता यजादयः। `यजिर्वपिर्वहिश्चैव वसिर्वेञ्? व्येञ इत्यपि। ह्वेञ्?वदी \उfffदायतिश्चेति यजाद्याः स्युरिमे नव'। कितीति किम् ?। इयष्ठ। डुवप्।`ड्वितः क्रिः'। उप्त्रिमम्।

Satishji's सूत्र-सूचिः

वृत्तिः वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। When a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16.

गीतासु उदाहरणम् – उवाच (वचँ परिभाषणे २. ५८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

वच् + लिँट् 3-2-115
= वच् + ल् 1-3-2, 1-3-3, 1-3-9
= वच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वच् + णल् 3-4-82, 1-1-55
= वच् + अ 1-3-7, 1-3-3, 1-3-9
= वच् वच् + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-116.
= व वच् + अ 7-4-60
= उ अ वच् + अ 6-1-17
= उ वच् + अ 6-1-108
= उवाच 7-2-116

सम्प्रसारणं तदाश्रितं च कार्यं बलवत् - परिभाषा

A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

उदाहरणम् – विव्याध (व्यधँ ताडने ४. ७८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

व्यध् + लिँट् 3-2-115
= व्यध् + ल् 1-3-2, 1-3-3, 1-3-9
= व्यध् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= व्यध् + णल् 3-4-82, 1-1-55
= व्यध् + अ 1-3-7, 1-3-3, 1-3-9
= व्यध् व्यध् + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-116.
= व् इ अध् व्यध् + अ 6-1-17, 6-1-37. As per the परिभाषा above, 6-1-17 (which is an earlier rule in the अष्टाध्यायी compared to 7-4-60) applies before 7-4-60. Note: If 7-4-60 had applied first, the यकार: (in the अभ्यास:) would have taken लोप: and we would have ended up with an undesirable form.
= विध् व्यध् + अ 6-1-108
= वि व्यध् + अ 7-4-60
= विव्याध 7-2-116