TBD.
लः कर्मणि च भावे च अकर्मकेभ्यः 3-4-69 इति भावकर्मणोर् विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते। तत्रेदम् उच्यते, भावे कर्मणि च आत्मनेपदं भवति। भावे ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता। कर्मणि क्रियते कटः, ह्रियते भारः। कर्मकर्तरि, लूयते केदारः स्वयम् एव इति, परस्मैपदं न भवति। तस्य विधाने द्वितीयं कर्तृग्रहणम् अनुवर्तते। तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति।
TBD.
754 लस्यात्मनेपदम्..
504 अथ आत्मनेपदप्रक्रिया निरूप्यते। आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि। तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति– अनुदात्तङित इति। `आत्मनेपद'मित्येतत् `शेषात्कर्तरि परस्मैपद'मित्यतः प्रागनुवर्तते। कर्मकारके वर्तते। भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः। भावे उदाहरति- - बभूवे इति। वृत्ता भवनक्रियेत्यर्थः। कर्मण्युदाहरति– अनुबभूवे इति। `आनन्द' इति शेषः। आनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः।
432 भावकर्मणोः। भावे कर्मणि चयो लकारस्तस्याऽऽत्मनेपदमित्यर्थः।
351) भावकर्मणोः 1-3-13
वृत्तिः लस्यात्मनेपदम् । When denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:।
उदाहरणम् – पठ्यते (√पठ् भ्वादि-गणः, पठँ व्यक्तायां वाचि १. ३८१), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्।
पठ् + लँट् 3-4-69, 3-2-123 = पठ् + ल् 1-3-2, 1-3-3
= पठ् + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = पठ् + ते 3-4-79
Example continued below.