Table of Contents

<<1-1-44 —- 1-1-46>>

1-1-45 इग्यणः सम्प्रसारणम्

प्रथमावृत्तिः

TBD.

काशिका

इक् यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणम् इत्येषा संज्ञा भवति। यजि ष्टम्। वप् उप्तम्। ग्रह गृहीतम्। केचिदुभयथा सूत्रम् इदं व्याचक्षते वाक्यार्थः संज्ञी, वर्णश्च इति। इग्यणः यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स सम्प्रसारणसंज्ञो भवति, यण्स्थानिक इग्वर्णः स सम्प्रसारणसंज्ञो भवति इति। तत्र विधौ वाक्यार्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्रपत्योस् तत्पुरुषे 6-1-13 वसोः सम्प्रसारणम् 6-4-131 इति। अनुवादे वर्णः सम्प्रसारणाच् च 6-1-108 इति। सङ्ख्यातानुदेशादिह न भवति अधितराम् इति। द्युभ्याम् इत्यत्र दिव उत् 6-1-131 इति तपरकरणाद् दीर्घो न भवति। सम्प्रसारणप्रदेशाः वसोः सम्प्रसारणम् 6-4-131 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

257 यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्..

बालमनोरमा

वि\उfffदावागम्, वि\उfffदावाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति–इग्यणः यणः स्थाने इति। व्याख्यानात्स्थानार्थलाभः। `षष्ठी स्थानेयोगे'ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः। षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् `षष्ठीस्थानेयोगा' इत्येत`न्निर्दिश्यमानस्यादेशा भवन्ती'त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च। संप्रसारणसंज्ञ इति। ततश्च `वसोः संप्रसारणं' `वचिस्वपियजादीना'मित्यादौ संप्रसारणश्रुतौ यण्?स्थानिक इगुपस्थितो भवति। तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य लृकार इति ज्ञेयम्।

तत्त्वबोधिनी

288 इग्यणः। यणः स्थाने इति। विधिप्रदेशेषु सूत्रसाटकवद्भाविसंज्ञाश्रयणान्नान्योन्याश्रयः। ननु यण्स्थानिकस्येकः संप्रसारणत्वे `अदुहितचरा'मित्यत्र लङो लकारस्य स्थाने उत्तमपुरुषैकवचनमिट्, तस्य यण्स्थानिकत्वेन संप्रसारणसंज्ञायां सत्यां `हलः'इति दीर्घः स्यात्, तरपं प्रति लङ्न्तस्याऽङ्गत्वादिति चेत्। अत्र कैयटः— यथासङ्ख्यसम्बन्धात्सम्प्रसारणसञ्ज्ञाऽत्र न भवतीति। नन्वनुवादे परिभाषाणामनुपस्थानात्कथमिह यथासङ्ख्यत्वलाभः। नचैवं स्थानेयोगोऽपि न लभ्येतेति वाच्यम्, `षष्ठी स्थानेयोगे'त्यत्रैतत्सूत्रमनुवत्र्तय व्याख्यायां तल्लभात्। अत्राहुः–तन्त्रावृत्त्याद्याश्रयणेन `सम्प्रसारणस्ये'ति सूत्रे तद्भावितग्रहणाददुहिकरामित्यत्र `हलः'इति लङः स्थामिकस्येटः संप्रसारणस्य दीर्घो न भवति, लङ्स्थानिकस्येटः संप्रसारणशब्देनाऽभावितत्वात्ष। नन्वेवमप्यक्षद्युवौ अक्षद्युव इत्यादावूठः संप्रसारणसंज्ञायां `संप्रसारणाच्चे'ति पूर्वरूपं स्यादिति चेन्न, `संप्रसारणपूर्वत्वे समानाङ्गग्रहणं कर्तव्य'मिति वार्तिककृतोक्तत्वाद्वार्णादाङ्गस्य बलीयस्त्वाद्वा उवङेव स्यात्। अत्र नव्याः– `ष्यङः संप्रसारण'मित्यादिविधिप्रदेशेष्वेव `यण् इ'गिति पठित्वा संप्रसारणसंज्ञासूत्रं त्युक्तं शक्यमित्याहुः।

Satishji's सूत्र-सूचिः

205) इग्यणः सम्प्रसारणम् 1-1-45

वृत्ति: यणः स्थाने प्रयुज्यमानो य इक्, स सम्प्रसारणसञ्ज्ञः स्यात्। The इक् letter that is ordained in the place of a यण् letter gets the designation सम्प्रसारणम्।

गीतासु उदाहरणम् – श्लोकः bg5-18

श्वन् + ङि = श्वन् + इ 1-3-8, श्वन् gets भ-सञ्ज्ञा by 1-4-18 = श् उ अन् + इ 6-4-133, 1-1-45 – Example continued under next rule.