TBD.
लिटि इत्यनुवर्तते। वेञ् तन्तुसन्ताने इत्यस्य धातोः लिति परतः सम्प्रसारणं न भवति। ववौ, ववतुः, ववुः। किति यजादित्वात् धातोः प्राप्तम् अकित्यपि लिट्यभ्यासस्य उभयेषाम् 6-1-17 इत्यभ्यासस्य, अतः उभयं प्रतिषिध्यते।
TBD.
–
246 वेञः। `लिटि वयो यः' इत्यतो लिटीति, `न संप्रसारणे संप्रसारण'मित्यतो न संप्रसारणमिति चानुवर्तते।तदाह–वेञो नेति। अत्र कितीति नानुवर्तते। तदाह– ववाविति। णलि संप्रसारणनिषेधे `आदेच उपदेशे' इत्त्यात्वे `आत औ णलः' इत्यौभावे `वृद्धिरेची'ति वृद्धौ रूपम्। ववतुरिति। `आदेचः' इत्यात्त्वे `आतो लोपः'। एवं ववुः। भारद्वाजनियमात्थलि वेट्, वेञस्तासावनिट्कत्वात्। तदाह–वविथ ववाथेति। इट्पक्षे अकित्त्वेऽपि इट्परत्वादाल्लोप इति भावः। ववथुः वव। ववौ वविव वविम। क्रादिनियमादिट्। ववे इति। ववाते वविरे। वविषे ववाथे [वविढ्वे]। वविध्वे। ववे वविवहे वविमहे। वातेति। लुटि तासि आत्त्वम्। वास्यति वास्यते। वयतु वयताम्। अवयत् अवयत। वयेत् वयेत। ऊयादिति। आशीर्लिङि यासुटि कित्त्वात् `वचिस्वपी'ति संप्रसारणे पूर्वरूपे `अकृत्सार्वधातुकयो'रिति दीर्ग इति भावः। वासीष्टेति। आशीर्लिङि आत्मनेपदे, सीयुटि आत्त्वे रूपम्। वासीयास्ताम्। अवासीदिति। आत्त्वे कृते इट्पकौ। अवास् इ स् ईदिति स्थिते `इट ईटी'ति सिज्लोपः। अवासिष्टामित्यादि। आत्मनेपदे– अवास्त अवासातामित्यादि। अवास्यत् अवास्यत। व्येञ् संवरणे इति। ञित्त्वादुभयपदी। अनिट्। व्ययति व्ययते इति। शपि अयादेशः। णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम्।
217 वेञः। लिटि किम् ?। उतम्। उतवान्।
TBD.