TBD.
लः इत्युत्सृष्टानौबन्धं सामान्यं गृह्यते, प्रथमाबहुवचनान्तं चा एअत्। लकाराः कर्मणि कारके भवन्ति, चकारात् कर्तरि च अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात् कर्तरि च। गम्यते ग्रामो देवदत्तेन। गच्छति ग्रामं देवदत्तः। अकर्मकेभ्यः आस्यते देवदत्तेन। आस्ते देवदत्तः। सक्रमकेभ्यो भावे न भवन्ति।
TBD.
375 लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च..
3 लः कर्मणि च। वाक्यद्वयमिदं सूत्रम्। `लः कर्मणि चे'ति प्रथमं वाक्यम्। `ल' इति प्रथमाबहुवचनान्तम्। चकारेण `कर्तरि कृ'दित्यतः `कर्तरी'त्यनुकृष्यते। `धातो'रित्यधिकृतम्। लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते। सकर्मकधातुविषयमेवेदम्, अकर्मकेषु `कर्मणी'त्यस्य बाधितत्वात्। तदाह लकाराः सकर्मकेभ्य इति। एवं च सकर्मकेभ्यो भावे लकारान भवन्ति। सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तु `देवदत्तेन घटं क्रियते' इत्यादौ भावलकारेण कर्मणोऽनभिहितत्वाद्द्वितीया स्यादिति भावः। `भावे चाकर्मकेभ्यः' इति द्वितीयं वाक्यम्। अत्रापि चकारेण कर्तैवानुकृष्यते, न तु कर्म, असंभवात्। तदाह- - अकर्मकेभ्यो भावे कर्तरि चेति। अत्राऽकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्रन्ते। तेन `देवदत्तेन भुज्यते' इत्यत्र सतोऽप्योदनरूपकर्मणोऽविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः।
3 लः कर्मणि च। चकारात् `कर्तरि क'दित्यतः कर्तरीत्यनुकृष्यते। सकर्मकविषयं चेदम्। अकर्मकेषु कर्मणीत्यंशस्य बाधितत्वात्, `भावे चे'त्युत्तरवाक्येन तत्र विशेषविधानाच्च। तदेतदाह— सकर्मकेभ्य इति। भावे चेति। चकारेण कर्तैवाऽनुकृष्यते न तु कर्म, असंभवात्। तदाह– भावे कर्तरि चेति। ननु भावकर्मणोरात्मनेपदविधानात्, `शेषात्कर्तरी'ति परस्मैपदविधानाच्च ज्ञापकाल्लकाराणां भावकर्मकर्तारोऽर्था अनुमातुं शक्यन्त इति किमनेन सूत्रेण ? मैवम्। असत्यस्मिन्सूत्रे सकर्मकेभ्योऽपि घञादिवद्भावे लकारापत्तौ `घटं क्रियते देवदत्तेने'त्यादिप्रयोगः प्रसज्येत, तन्माभूदित्येतदर्थमेतत्सूत्रस्यावश्यकत्वात्। न चैवम् `अककर्मकेभ्यो भावे लः' इत्येव सूत्र्यतां, `भावे अकर्मकेभ्य एवे'ति नियमार्थमिति वाच्यम्, `अकर्मकेभ्यो भाव एवे'ति विपरीतनियमापत्त्या कर्तरि तेभ्यो लकाराऽनापत्त्या कर्तरि तेभ्यो लकाराऽनापत्तेः। तस्माद्भावे चेति चकार आवश्यकः। न चैवं `भावे चाकर्मकेभ्यः' इत्येवाऽस्त्विति वाच्यं, भावे इव कत्र्तर्यप्यकर्मकेभ्य एवेति नियमापत्तौ सकर्मकेभ्यो भाव इव कर्तर्यपि लकारानापत्तेः। नन्वेवमपि `लश्च भावे चाऽकर्मकेभ्यः' इत्येवास्तु, चकारेण कत्र्रीत्यनुकर्षणाल्लकाराः सकर्मकेभ्यः कर्तरि स्युरकर्मकेभ्यो भावे कर्तरि च स्युरित्यर्थे पर्यवसिते, कर्मणि तूक्तज्ञापकाद्भविष्यन्तीति किमनेन कर्मणीत्यनेनेति चेन्मैवम्, उत्तरसूत्रे `तयो'रित्यनेन कर्मणोऽपि परामर्शार्थं तस्यावश्यकतया ज्ञापकानुसरणक्लेशस्य वैयथ्र्यात्। तस्माद्यथान्यासमेव रमणीयम्। अत्र नैयायिका– `लकाराणां कृतावेव शक्तिर्लाघवान्न तु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात्, `देवदत्त' इत्यादिप्रथमान्तपदेन तल्लाभाच्च। `देवदत्तः पचती'त्यत्र हि देवदत्तो विशेष्यः, यत्नो विशेषणम् , आश्रयत्वं तु संसर्गः। रतथा च पाकानुकूलकृत्याश्रयो देवदत्त इत्यादिशाब्दबोधोऽपि सूष्ठूपपद्यते' इति। तन्न। पचतीत्युक्ते पाककर्ता कस्मिन्नित्याकाङ्क्षा स्यात्, कस्येति वा। न चैककर्तृका पचिक्रियेति शाब्दबोधाब्युपगमेऽपि क इत्याकाङ्क्षा नोपपद्यत एवेति शङ्क्यं, कर्तृसामान्यबोदे सति क इति कर्तृविशेषाकाङ्क्षायां बाधकाऽभावात्। नापि देवदत्तकर्तृका पचिक्रियेत्युक्तेऽपि कस्मिन्नस्ति कस्य वेत्याकाङ्क्षा दुर्वारेवेति शङ्क्यं, विक्लित्त्यनुकूलव्यापारस्यैव पचिक्रियात्वात्, तदाश्रयस्य देवदत्तस्य कर्तृत्वात्, क्रियाश्रयत्वे निश्चिते कस्मिन्नित्याद्याकाङ्क्षाया अप्रवृत्तेः। किंच `पचन्तं देवदत्तं पश्य', `पचते देवदत्ताय देहि', `पचमानस्य देवदत्तस्य द्रव्य'मित्यादौ शतृशानजादीनामपि तिबादिवल्लादेशत्वाऽविशेषेण तेभ्योऽपि कृतिमात्रबोधापत्तेः। न चेष्टापत्तिराश्रयत्वं संसर्ग इत्युक्तत्वेन पाकानुकूलकृत्याश्रयं देवदत्तं पश्येत्याद्यर्थस्वीकारे दोषाऽभावदिति वाच्यं, नामार्थयोर्भेदान्वयस्य स्वपरसिद्धान्तविरुद्धत्वात्। न चैवं नामार्थयोरमेदसंसर्गव्युत्पत्त्यनुरोधेन, शतृशानजाजीनां कर्तरि शक्तिस्तिबादीनां तु कृतावेवेति वैषम्यं स्वीक्रियते, प्रामाणिकगौरवस्याऽदोषत्वादिति वाच्यं, `स्थान्येव वाचको लाघवान्न त्वादेशो गौरवा'दिति स्वसिद्धातन्तस्य परित्यागापत्तेः। `रामः', `ज्ञानं', `कतर'दित्यादौ सोर्विसर्गे सोरमि सोरदडि च कृते लाघवात्सुत्वनैव शक्तिर्न तु तत्तद्रूपेणेत्यादिभवदीयव्यवहारस्याऽसाङ्गत्यापत्तेश्च। एवं च तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानीयत्वं, बोधकस्तु लकार एवेति स्थितम्। स च शत्राद्यन्ते कर्तरि शक्त इत्यभ्युपगमे तिङन्ते कथं कृतिं बोधयेत् ?। `अन्यायश्चाऽनेकार्थत्व'मिति न्यायात्। यदि त#उ वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इत्याद्यभ्युपगम्यते तर्हि– घटं, घटेन, हरेऽव, विष्णोऽवेत्यादिषु `सर्वे सर्वपदादेशाः' इति न्यायेन पदस्फोटो वाक्यस्फोटश्च सिध्येदिति भवतां तन्महदनिष्टम्। किं च `कर्तरि कृ'दिति यत्कर्तृग्रहणं तदेव `लः कर्मणी'ति सूत्रे चकारेणानुकृष्यत इति कथं ण्वुलादीनां लकाराणां च शक्तौ वैलक्षण्यम्?। न च नामार्थयोरभेदान्वयसंसर्गाभ्यपगम एव ण्वुलादौ कर्तुर्वाच्यत्वे बीजमिति वाच्यं, `पचतिरूपं पचतिकल्पं देवदत्त' इत्याद्यनुरोधेन तिङ्क्ष्वपि कर्तुरेव वाच्यतौचित्यात्। ननु समुदायस्य नामत्वेऽपि तिङ्प्रत्ययो न नामेति चेत्, पाचक इत्यत्राप्यक इत्येतन्न नामेति तुल्यम्। अकान्तं नामेति चेद्रूपबाद्यन्तमपि नामेति तुल्यम्। ततश्चात्र प्रशस्तपाककर्ता देवदत्त इत्याद्यभेदान्वयो भवद्भिरभ्युपगन्तव्य इति तिङ्क्ष्वपि कर्तुर्वाच्यता स्वीकत्र्वयैव। किं च कर्तुर्वाच्यत्वाऽनभ्युपगमे `युष्मदि समानाधिकरणे मध्यमः' `अस्मद्युत्तमः' इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था, `अभिहिते कर्तरि प्रथमे'त्यादिकं च बवन्मते कथं सङ्गच्छताम्?। यत्तु अनभिहित इत्यस्यानभिहितसङ्ख्याक इत्यर्थवर्णनेन `देवदत्तः पचत्योदनम्', `ओदनः पच्यते देवदत्तेने'त्यादौ प्रथमाद्वितीयादिव्यवस्थापनमुक्तं, तन्न, कृत्तद्धितसमासेषु सङ्ख्याभिधानस्याऽप्रसिद्धत्वात्। ततश्च `पक्तकव्यस्तण्?डुलः', `शत्यः शतिकोऽ\उfffदाः', `प्राप्तोदको ग्रामः' इत्यादिषु `कर्मणि द्वितीये'त्यस्य प्रवृत्तौ प्रथमा न स्यात्। न च `तिष्ठती'त्यध्याहारेण सङ्ख्याबिधानमिहाप्यस्तीति वाच्यं, `स्थित' इत्याद्यध्याहारे तदभावात्। `शाब्दिकोऽयं देवदत्तो न तु नैयायिक' इत्यादिषु `नीलमिदं न तु रक्त'मित्यत्रेव क्रियापदा[द्य]ध्याहारस्याऽनावश्यकतया आख्यातेन, `शब्ददर्दुरं करोती'ति ठक्प्रत्ययेन वा कर्तृसङ्ख्याया अनुक्तत्वाद्देवदत्ते कर्तरि तृतीयोत्पत्तिप्रसङ्गाच्च। तस्मादनभिहिते कर्तरीत्यादि व्याख्यानमेवाभ्युपेतव्यम्। अपि च धातूपात्तव्यापाराश्रयः कर्ता, तत्राश्रयमात्रं कृतां लकाराणां चार्थो न तु व्यापारोऽपि, तस्य धातुनैव लब्धत्वात्। अत एव कर्ता कारक इत्यादौ प्रकृतिप्रत्ययार्थयोर्नाऽनन्वयः, व्यापाराश्रयस्य प्रत्ययार्थत्वे तु तस्य प्रकृत्यर्थेन व्यापारएमान्वयः क्लिष्टः स्यात्। यस्तु वदति– `कृदातोः कृतिरर्थः, कृत्प्रत्ययस्यापि कृतावेव शक्तिर्न तु कर्तरि। `कर्तरि कृ'दित्यत्रं हि कर्तरीति भावप्रधानो निर्देशः। कर्तृत्वं कृतिमत्त्वम्। तच्च कृतिरेवायत्र तु देवदत्तादिपदसमभिव्याहारस्तत्र तृजादौ कृतिमति लक्षणे' इत्यादि, तन्मते पूर्वोक्तकर्तेत्यादौ सुतरामनन्वयः। `कर्मवत्कर्मणे'ति सूत्रे करोतिरुत्पादनार्थः, उत्पत्तिश्च कर्मस्था, यत्नार्थकत्वे तु `करिष्यते घट' इत्यादि न सिद्ध्येदिति वक्ष्यमाणदूषणं च दुरुद्धरम्। आश्रयमात्रस्य प्रत्ययार्थत्वे तु `रथो गच्छती'त्यत्र रथस्याचेतनस्य यत्नाभावेऽपि गमनानुकूलचक्रभ्रमणादिव्यापाराश्रयत्वान्न काचिदनुपपत्तिः। एवं स्थिते कृतौ शक्तिरित्यास्योक्तिसंभव एव नास्ति, कृतेरपि व्यापारविशेषतया प्रायेण धातुत एव लाभात्। जानातीत्यादावाश्रयत्वं प्रत्ययस्यार्थ इति स्वीकृत्य यत्नार्थत्वस्य त्वयापि वक्तव्यत्वात्। नहि यत्नमन्तरेण ज्ञानं नोदेतीति कश्चिदभ्युपैति। तस्मात्कृतां तिङां च वैलक्षण्यं दुर्लभमिति कत्र्रर्थकत्वमभ्युपेयम्। एतेन कत्र्रधिकरणे आख्यातवाच्यत्वं कर्तुर्निरस्य जञ्जभ्यमानाधिकरणे यङन्ताद्विहितस्य जञ्जमान इति सानचः कर्तृवाचकत्वं स्वीकुर्वन्तो मीमांसका अपि प्रयुक्ताः। यत्तु तैरुक्तं- `शानजंशे`कर्तरि कृ'दिति व्याकरणं शक्तिग्राहकमस्ती'ति। तन्न। कृद्वाक्यशेषो ह्रयमर्थाकाङ्क्षायामनिर्दिष्टार्थेषु ण्वुलादिष्वेवोपतिष्ठते `आकाङ्क्षितविधानं ज्यायः' इति न्यायात्, न तु शत्रादिषु। स्थानिबूतलाकारार्थेनैव तेषां निराकाङ्क्षत्वात्, अन्यथा भावे कर्मणि च शानचो दौर्लभ्यापत्तेः। ततश्च `शय्यमाने आस्यमाने चायं गत' इत्यादिप्रयोगो भावे न स्यात्। कर्मणि तु `क्रियमाण' इत्यादिप्रयोगो न स्यात्। यत्तु भट्टपादा आहुः— `कर्तरि यदेकत्वं तत्र तिप्, कर्तरि यद्द्वित्वं तत्र तसित्यादिक्रमेण `लः कर्मणी'त्यस्य `द्व्येकयो'रित्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तृवाच्यता सूत्रादायाती'ति। तञ्चिन्त्यम्। `तान्येकवचनद्विवचने'ति विहितद्विवचनादिसंज्ञा हि तिबाद्यादेशनिष्ठा। ततश्च द्विवचनादिसंज्ञाकतिबादिविधिना `द्वेयकयो'रित्यस्यैकवाक्यताऽस्तु। न च तिबादिविधौ कर्तरीत्यस्ति यद्द्वित्वैकत्वादिविशेषणतयाक कथंचिन्नीयेत ?। ननु `लः कर्मणी'ति सूत्रे कर्तरि कृ'दित्यतोऽनुवृत्तं कर्तृग्रहणं तिबादिविधावस्त्येव, लविधि- तिबादिविध्योरप्येकवाक्यतास्वीकारादिति चेत्। सत्यम्। वाक्यैकवाक्यता हि सा, न तु पदैकवाक्यता, `\त्लः कर्मणी'ति विहितलकारानुवादेन तिबाद्यादेशविधेः प्रवृत्तत्वात्। तथा च लविधौ श्रूयमाणं कर्तृग्रहणं कथं सङ्ख्यां विशिनष्टु। न हि यत्र कर्तृग्रहणं तत्र सङ्ख्योपस्थापकमस्ति, लकारस्य द्विवचनादिसंज्ञाविनिर्मुक्तत्वात्। ततश्च `कर्तरि यदेकत्व'मिति व्याख्या कथमपि न संभवत्येव। स्यादेतत्– `लः कर्मणी'ति सूत्रे `ल' इत्यकारानुबन्धकयोर्लङ्लटोः सामान्यग्रहणं न भवति, किन्तूत्सृष्टानुबन्धकलकाराणां सामान्यग्रहणमिति निर्विवादम्। तत्र `ल' इति जसन्तं माभूत्। किं तु ङसन्तमस्तु `लः परस्मैपद'मितिवत्। आदेशापेक्षा चेयं षष्ठी– लस्य य आदेशः स कर्मणि चेत्यादि। न चाऽविहितस्य लस्यानुवादोन संभवतीति वाच्यं, `वर्तमाने ल'डित्यादिभिरेव लविधानात्। तथा च लस्य स्थानेय आदेशः स सकर्मकात्कर्मणि कर्तरि च [यदेकत्वं तत्र] स्यादकर्मकाद्भावे कर्तरि चेत्याद्यर्थः सुलभ इति भट्टपादोक्त्योजनिकानिर्बाधैवेति चेत्। अत्राहुः– ल इत्यस्य षष्ठ\उfffद्न्तत्वे आदेशानामेवाऽर्थ उक्तः स्यात्। सोऽपि तिबादिनामेव, न तु शवादीनां , तेषां द्विवचनादिसंज्ञाविरहात्। `द्व्येकयो'रित्यादिनाऽस्यैकवाक्यतायाभवद्भिरुक्तत्वात्। न च भवदुक्तरीत्या `कर्तरि कृ'दित्यनेन निर्वाहः। भावे कर्मणि च शानचो दौर्लभ्यापत्तेर#उक्तत्वात्। न च शानज्विधिना सहाऽऽत्मनेपदव्यवस्थाकपकानामेकवाक्यतया `भावकर्मणो'रित्यनेनेष्टसिद्धिः। सकर्मकादपि भावे शानजापत्तेः। किं च जसन्तत्वे श्रुतेनैव संबन्धः, षष्ट\उfffद्न्तत्वे त्वादेश इत्यध्याहाराद्गौरवमित्यादि। अत्रेदं बोध्यम्– `भावे चाकर्मकेभ्यः' इत्यकर्मकग्रहणेनाऽविवक्षितकर्माणोऽपि गृह्रन्ते। अत एव `णेरणौ' इति सूत्रे– नेह पच्यते नेह भज्यते इति भावे लकार इति हरदत्तः। `अत्यन्ताऽविद्यमानकर्मकामामेव ग्रहणं, `नेह, पच्यते' इत्यादौ तु कर्मण्येव लकारः। गम्यमानत्वाच्च कर्म न प्रयुज्यते' इति मतान्तरम्। एतच्च `गतिबुद्धी'त्यादिसूत्रे हरदत्तग्रन्ते स्पष्टम्। यत्तु कैश्चिदुक्तम्– इह `अविवक्षितकर्मणां भावे लकार इति प्रसादकृतोक्तं भाष्यादिविरोधादयुक्त' मिति, तच्चिन्त्यम्, पक्षद्व्यस्यापि भाष्यकैयकटादिग्रन्थारूढत्वात्। प्रत्युताऽविवक्षितकर्माणोऽप्यकर्मका इति पक्ष एव प्रबलः। तथाहि `समानकर्तृकेषु तुमु'न्निति सूत्रे इच्छता क्रियत इति भावे लडुक्तो हरदत्तेन। `णेरध्ययने वृत्त'मितिसूत्रे कैयट हरदत्तादिभिरपि `नपुंसके भावे क्तोऽकर्मकेभ्य एव, `तयोरेव कृत्यक्ते'त्यत्र कृन्मात्रस्य ग्रहणात्, तत्र भावेचाऽकर्मकेभ्य इत्यनुवर्तनात्, अन्यथा घटं कृतमिति प्रसज्येते'ति सिद्धान्तितम्। एवं स्थिते यद्यविवक्षितकर्मणोऽपीह सूत्रेऽकर्मकग्रहणेन न गृह्रेरन्, तर्हि पीता गावो भुक्ता ब्राआहृणा इत्यादौ भावे क्तान्तादर्श आद्यजित्यादि निष्ठादिप्रकरणे स्वयमेव वक्ष्यमाणम्, `आदिकर्मणि क्तः' इति सूत्रे हरदत्तेन वक्ष्यमाणं, कृतपूर्वीत्यत्र भावे क्त इति कैयटाद्युक्तं च कथं सङ्गच्छेत् ?। कथं च `गतं तिरश्चीन' मित्यादिप्रयोगाः सङ्गच्छेरन् ?। `गतिबुद्धी'ति सूत्रे त्वकर्मकग्रहणेनाऽविवक्षितकर्मके'ति सूत्रेऽपि न गृह्रन्ते,तेन हि सूत्रेण कर्तर्यपि क्तो विधीयत इति दत्तवान्पक्ववानित्याद्यर्थे दत्तः पक्व इत्याद्यापत्तेः। इह सूत्रे त्विवक्षितकर्मणाकर्मकत्वेन ग्रहणे न कोऽपि दोष इत्यास्तां तावत्।
276) लः कर्मणि च भावे चाकर्मकेभ्यः 3-4-69
वृत्तिः लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च । The लकाराः (tense-affixes) may be used after a सकर्मक-धातुः (transitive verb) in denoting the object as well as the agent; and when they come after an intransitive verb (अकर्मक-धातुः) they may denote the action as well as the agent.
In active voice the लकारः affix marks the agent (कर्तृवाच्य:)। In passive voice of a सकर्मक-धातुः the लकारः affix marks the object (कर्मवाच्य:)। And for the passive voice of a अकर्मक-धातुः the लकारः affix marks the action itself (भाववाच्य:)।
उदाहरणम् -
पुरुषो वृक्षं छिनत्ति । (सकर्मक-धातुः, कर्तृवाच्य:)
पुरुषेण घटः क्रियते । (सकर्मक-धातुः, कर्मवाच्य:)
बालः तिष्ठति । (अकर्मक-धातुः, कर्तृवाच्य:)
बालेन स्थीयते । (अकर्मक-धातुः, भाववाच्य:)