TBD.
भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते। तस्मादनवने ऽपालने वर्तमानादात्मनेपदं भवति। भुङ्क्ते, भुञ्जाते, भुञ्जते। अनवने इति किम्? भुनक्त्येनम् अग्निराहितः। अनवन इति प्रतिषेधेन रौधादिकस्यैव ग्रहणं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य। तेन इह न भवति, विभुजति पाणिम्।
TBD.
748
561 भुजोऽनवने। अवनं—रक्षणम्। ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः। ननु भुज पालनाऽब्यवहारयो' रिति धातुपाठे स्थितम्। तत्र `बुभुजे पृथिवी'मित्यत्र न पालनमर्थः. तथा सति `अनवने' इति पर्युदासादात्मनेपदाऽयोगात्। नाप्यभ्यवहरणम्, असंभवात्। नहि पृथिव्या अभ्यवहरणं संभवति। तथा `वृद्धो जनो दुःखशतानि भुङ्क्ते' इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात्. तत्राह– इह उपभोगो भुजेरर्थ इति। धातूनामनेकार्थकत्वादिति भावः। महीं भुनक्तीति। रक्षतीत्यर्थः। अत्र रौधादिकस्यैव `भुज पालनाभ्यवहारयो'रित्यस्य ग्रहणम् – नतु `भुजो कौटिल्ये' इति तौदादिकस्याऽपीति भाष्यम्। भुजति वासः = कुटिली भवतीत्यर्थः।
465 अवनं– पालनम्। `अदने' इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम्। संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौधादिकस्यैव भुजेग्र्रहममित्येकम्, अदनादर्थान्तरेऽप्युपभोगादौ आत्मनेपदं भवतीति द्वितीयम्, तदाह– बुभुजेपृथिवीपाल इति। इहेति। उपभोग इत्युपलक्षममात्मसात्करणस्यापि।पृथिवीं बुभुजे। स्वाधीनां चकारेत्यर्थः। भुज पालनाभ्यवहारयोरित्यस्य रूधादेस्वे ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव। पाणिं विभुजति। मूलानि विभुजति।
436) भुजोऽनवने 1-3-66
वृत्तिः तङानौ स्तः । The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting.
उदाहरणम – भुनक्ति/भुङ्क्ते (√भुज्, रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः #७. १७), लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।
The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √भुज्-धातुः, in कर्तरि प्रयोग:, would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66, it takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।
अवने पक्षे
भुज् + लँट् 3-2-123
= भुज् + ल् 1-3-2, 1-3-3
= भुज् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भुज् + ति 1-3-3
= भु श्नम् ज् + ति 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”
= भु न ज् + ति 1-3-8, 1-3-3
= भुनग् + ति 8-2-30
= भुनक्ति 8-4-55
अनवने पक्षे
भुज् + लँट् 3-2-123
= भुज् + ल् 1-3-2, 1-3-3
= भुज् + त 3-4-78, 1-3-66, 1-4-100, 1-4-101, 1-4-102, 1-4-108, “त” gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भुज् + ते 3-4-79
= भु श्नम् ज् + ते 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”
= भु न ज् + ते 1-3-8, 1-3-3
= भु न् ज् + ते 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: “ते” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
= भु न् ग् + ते 8-2-30
= भुं ग् + ते 8-3-24
नस्यापदान्तस्य अनुस्वारः, झलि परे। Here “न्” takes अनुस्वार:।
= भुङ् ग् ते 8-4-58
Now, the अनुस्वर: takes परसवर्ण of “ग्” - i.e. “ङ्”
= भुङ्क्ते 8-4-55
This rule makes “ग्” to have corresponding चर् = “क्”