Table of Contents

<<1-3-66 —- 1-3-68>>

1-3-67 णे रणौ यत् कर्म णौ चेत् स कर्ता ऽनाध्याने

प्रथमावृत्तिः

TBD.

काशिका

णिच्श्च 1-3-74 इति कर्त्रभिप्राये क्रियाफले सिद्धम् एव आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। ण्यन्ता दात्मनेप्दं भवति। कथम्? अणौ यत् कर्म णौ चेत् तदेव कर्म, स एव कर्ता भवति, अनाध्याने आध्यानं वर्जयित्वा। आरोहन्ति हस्तिनं हस्तिपकाः, अरोहयते हस्ती स्वयम् एव। उपसिञ्चन्ति हस्तिनं हस्तिपकाः, उपसेचयते हस्ती स्वयम् एव। पश्यन्ति भृत्या राजानम्, दर्शयते राजा स्वयम् एव। णेः इति किम्? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती साध्वारोहति। अणौ इति किम्? गनयति गनं गोपालकः, गनयति गणः स्वयम् एव। कर्मग्रहणं किम्? लुनाति दात्रेन, लाव्यति दात्रम् स्वयम् एव। णौ चेद्ग्रहनं समानक्रियार्थम् आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती भीतान् सेचयति मौउत्रेण। यत्सग्रहणम् अनन्यकर्मार्थम्। आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान्। कर्ता इति किम्? आरोहन्ति हस्तिनम् हस्तिपकाः, तानरोहयति महामात्रः। अनाध्याने इति किम्? स्मरति वङ्गुल्मस्य कोकिलः, समरयत्येनं वङ्गुल्मः स्वयम् एव। ननु चात्र कर्मकर्तरि मूलोदाहरणानि। तत्र कर्मवद्भावेन एव सिद्धम् आत्मनेपदम्। किम् अर्थम् इदम् उच्यते? कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवदतिदेशो विज्ञायते। कर्तृस्थार्थो ऽयमारम्भः। तथा च रुहिः कर्तृस्थक्रियः, दृशिः कर्तृस्थभावकः उदाहृतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

562 णेरणौ। इह चत्वार्यवान्तरवाक्यानि। `णे'रिति प्रथमं वाक्यम्। प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम्। आत्मनेपदमित्यधिकृतं। तदाह- - ण्यन्तादात्मनेपदं स्यादिति। `अणौ यत्कर्म णौ चे'दिति द्वितीयं वाक्यम्। `कर्तरि कर्मव्यतिहारे' इतिवत्कर्मशब्दोऽत्र क्रियापरः। यत्तदोर्नित्यसम्बन्धात्तदिति लभ्यते। तथा च द्वितीयं वाक्यम्। तथा च अणौ या क्रिया सा ण्यन्ते चेदिति लभ्यते. एवं सति पचति पाचयतीत्यादौ सर्वतर् अणौ क्रियायाण्यन्ते अवश्यं सत्त्वाद्वाक्यमिदमनर्थकम्। तस्मात् अणौ या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते। ततश्च द्वितीयवाक्यस्य फलितमाह– अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत। `स कर्ते'ति तृतीयं वाक्यम्। अत्र `अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति। अत्र तच्छब्दस्य विदेयसमर्पककर्तृशब्दानुसारेण पुंलिङ्गता ज्ञेया, `शैत्यं हि यत्सा प्रकृतिर्जलस्ये'तिवत्। अथ `अनाध्याने'ति चतुर्तं वक्यं व्याचष्टे– न त्वाध्याने इति। आध्यानमुत्कण्ठापूर्वकं स्मरणम्। तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते। वस्तुतस्तु आध्याने आत्मनेपदं नेत्यर्थाश्रयणे भवतीत्यत्र नञोऽन्वितत्वेन असामथ्र्यादाध्यानशब्देन सम#आसाऽसंभवात्पर्युदास एवाऽयम्। `न त्वाध्याने' इतिमूलं तु फलितार्थकथनपरमेव। तथा च आध्यानभिन्नेऽर्थे विद्यमानाण्ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव आध्याने इत्यस्यान्वयात्रीण्येवाऽतवाक्यानीति युक्तम्। `वाक्यत्रय'मित्येव च भाष्ये दृश्यते। ननु `णिचश्चे'ति सिद्धे किमर्थमिदं सूत्रमित्यत आह– णिचश्चेतीति। परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः। स्यादेतत्। `विभाषोपपदेन प्रतीयमाने' इति सूत्रं वक्ष्यते। कर्तृगामिनि क्रियाफले यदात्मनेपदं विहितं तदुपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः। `स्वं यज्ञं यजति यजते वे'त्याद्युदाहरणम्। `णेरणौ' इत्स्य तु दर्शयते भव इत्यनुपदमेव उदाहरणं वक्ष्यते इत स्थितिः। तत्र `दर्शयते भवः स्वयमेवे'त्यत्र फलस्य कर्तृगामित्वविवक्षायां `णेरणा'विति नित्यमात्मनेपदमिष्यते। तत्र परत्वात् `विभाषोपपदेने'ति विकल्पः स्यात्, `णेरणौ' इत्स्य फले आत्मगामित्वगमकोपपदाऽभावे सावकाशत्वात्। किंच `अणावकर्मकाच्चित्तवत्कर्तृका'दिति वक्ष्यते। अण्यन्ते यो धातुरकर्मकः, चित्तवत्कर्तृकश्च तस्माण्ण्यन्तात् परस्मैपदं स्यादिति तदर्थः। शेते कृष्णः। तं गोपी शाययतीत्युदाहरणम्। णेरणावित्यस्य तु दर्शयते भव इत्युदाहरणविषय इति स्थितिः। तत्र लूधातोर्लुनाति केदारं देवदत्त इत्यतर् चित्तवत्कर्तृकत्वात्, लूयते केदार इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच्च `लावयते केदार' इति ण्यन्तात् `णेरणौ' इत्यात्मनेपदं बाधित्वा पर्तवात् `अणावकर्मका'दिति परस्मैपदमेव स्यात्, णेरणावित्यस्य दर्शयतेभव इत्यत्र सावकाशत्वादित्यत आह- - कत्र्रभिप्राये त्विति। पूर्वविप्रतिषेधेनेति। पूर्वविप्रतिषेधाश्रयणे `राजा दर्शयते' इति भाष्यप्रयोगो मानम्, अन्यथा तत्र `अणावकर्मका'दिति परस्मैपदापत्तेः, दर्शनविषयो भवतीत्यर्थे पश्यति भव इत्यत्र दृशेरणावकर्मकत्वाच्चित्तवत्कर्तृकत्वाच्च। `विभाषोपपदेने'ति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम्। अन्ये तु `दर्शयते राजे'ति भाष्यप्रयोगः फलस्य परगामित्वविषयो भविष्यति। एवं च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किंचिद्बाधकमिति पूर्वविप्रतिषेधाश्रयणं चिन्त्यमित्याहुः। तच्चिन्त्यम्, `अणावकर्मका'दित्यस्य परगामिन्यपि फले परत्वात्प्रवृत्तेर्दुर्वारत्वात्। नह्रणावकर्मकादित्यत्र कत्र्रभिप्राय इत्यस्ति, `स्वरितञितः कत्र्रभिप्राये' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम्। ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव इत्यतत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्य `कर्मवत्कर्मणे'ति कर्मवद्भावात् `भावकर्मणो'रित्यात्मनेपदसिद्धेः `णेरणौ' इति सूत्रं व्यर्थमित्यत आह- - कर्तृस्थेति। कर्तृस्थो भावो येषां ते कर्तृस्थकभावकाः, कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः, एवंविधा धातव इह सूत्रे उदाहरणम्। `कर्मवत्कर्मणे' त्यस्य तु कर्मस्थभावकाः, कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे `कर्मवत्कर्मणे' ति सूत्रे च भाष्ये स्पष्टम। अतो विषयभेदात् `कर्मवत् कर्मणे'त्यनेन `णेरणौ'इत्यस्य न गतार्थतेति भावः। अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः। यथा दर्शनश्रवणादिः। सपरिस्पन्दनसाधनसाध्यो धात्वर्थः। क्रिया। यथा पाकादिः। यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति तथापि तद्भिन्नहस्तपादादिचेष्टैवाऽत्र स्पन्दनमित्यविरोधः। तत्र कर्तृस्थभावकमुदाहरति– पश्यन्ति भवं भक्ता इति। सकर्मकेषु धातुषु फलव्यापारयोर्धातुर्वर्तते। यथा पचेर्विक्लित्त्यनुकूलो व्यापारः। तत्र विक्लित्तिः फलम्। तदनुकूलोऽधिश्रयणादिव्र्यापारः। धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादिः। व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतं कर्म। यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः। प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापार्थकत्वे सकर्मकत्वानुपपत्तिः, फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरण्तवात्। अतो दृशेश्चाक्षुज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः। तत्र ज्ञानविषत्वापत्तिः फलम्। तदनुकूलः प्रयत्नादिव्#आपारो देवदत्तनिष्ठः। एवं च प्रयत्नादिव्यापारव्यधिकणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते। तदेतदाह– चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थ इति। प्रेरणेति। यदा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरर्थो विवक्षितो न तु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशस्तदा पश्यति भव इत्यस्य चाक्षुषज्ञानविषयः संपद्यते इत्यर्थः। सौकर्यातिशयविवक्षया अनुकूलव्यापारांऽशस्य अविवक्षा बोध्या। तथा च चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव। तदाह- - विषयो भवतीत्यर्थ इति। लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः। नचाऽत्र भवस्य वस्तुतो दर्शनकर्मण इह कर्तृत्वात् `कर्मवत्ककर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्क्यं, `कर्मवत्कर्मणे'त्यस्य कर्मस्थभावकेषु, कर्मस्थक्रियेषु च प्रवृत्तेः। अतः कर्मकर्तर्यपि शबादिकमेवेति भावः। तत इति। कृञ्धातुगम्यं पेरषणांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्दृशेर्हेतुमण्णिजित्यर्थः। दर्शयन्ति भवं भक्ता इति। चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थ-। तदाह–पश्यन्तीत्यर्थ इति। चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः। पुनरिति। चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके `दर्शयन्ति भवं भक्ता' इत्युक्तोदाहरणे णिजर्थस्य आपादनांऽशस्याऽविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति `दर्शयते भव' इत्युदाहरणमित्यर्थः। अत्र ण्यन्तस्यप्रेरणारहिऽथ लक्षणा। `गङ्गायां घोष' इत्यत्र टाप इव णिचः स्थितिः। चुरादेराकृतिगणत्वात्स्वार्थिको णिजित्यन्ये। इहेति। अवस्था = पदविशेषात्मकावयवसंनिवेशविशेषः। प्रथमा च तृतीया च प्रथमतृतीये। तयोरवस्थयोरिति विग्रहः। `सर्वनाम्नो वृत्तिमात्रे' इति प्रथमाशब्दस्य पुंवत्त्वम्। पश्यन्ति भवं भक्ता इति प्रथमावस्था। पदविशेषसंदर्भ इति यावत्। अवस्थैव कक्ष्येति व्यवहरिष्यते मूले। कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका। तद्यथा रामायणे– `आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारय'दित्यादि। इदं च प्रथमवाक्यं प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम्। चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणांऽशत्यागसय् प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याऽभावे असंभवात्। प्रेरणांऽशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य पश्यन्ति भवं भक्ता इति प्रथमवाक्यसमानार्थकस्य प्रवेशापत्तेः। तृतीयं वाक्यं त्विदं दर्शयन्तीति – ण्यर्थस्याऽविवक्षायां दर्शयते भव इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्य्समानार्थकस्य ण्नय्तघटितस्योपपादकमिति स्पष्टमेव। तथा च प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भवं भक्ता इत्यनयोः , तथा पश्यन्ति भवः, दर्शयते भव इति द्वितीयचतुर्थ्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः। तत्र प्रथमद्वितीययोः कक्ष्ययोर्दृशेण्र्यन्तत्वाऽभावादेव तङो न प्रसक्तिरिति मत्वा आह– तत्र तृतीयकक्ष्यायां न तङिति। कुत इत्यत आह– क्रियासाम्येऽपीति। `दर्शयन्ति भवं भक्ता' इति तृतीयक्ष्यायाः, `पश्यन्ति भवं भक्ता' इति प्रथमकक्ष्यासमनार्थकतया `अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते'त्यंशस्य सत्?तवेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य `दर्शयन्ति भवं भक्ता' इति तृतीयकक्ष्यायां णौ कर्तृत्वाऽभावादित्यर्थः। एवं चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणं चेत्युक्तं भवति। अणा या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशस्य तु अध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायां न तङिति फलं वक्ष्यते। चतुर्थकक्ष्या तु प्ररकृतसूत्र्सयोदाहरणमित्याह– चतुर्थ्यां तु तङिति। `णेरणौ' इति प्रकृतसूत्रेणे'ति सेषः। तदेवोपपादयति— द्वितीयामादायेति। `पश्यति भव' इति द्वितीयकक्ष्यायां या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव `दर्शयते भव' इति चतुर्थक्ष्यायां ण्यन्तदृश्यर्थत्वादित्यर्थः। अनेन `अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते त्यंश उपपादितः। अथ `अणौ यत्कर्मकारकं णौ स चेत्कर्ता स्या'दित्यंशमुपपादयति– प्रथमायामिति। `पश्यन्ति भवं भक्ता' इति प्रथमकक्ष्यायामण्यन्तदृशिकर्मणो भवस्य `दर्शयते भव' इति चतुर्थकक्ष्यायां ण्यन्तदृशिकर्तृत्वाच्चेत्यर्थः। अथ कर्तृस्थक्रियधातुमुद#आहरति–एवमारोहयते हस्तीत्यादि। तत्र प्रथमकक्ष्यामाह– आरोहन्ति हस्तिनं हस्तिपका इति। हस्तिनं पान्तीति हस्तिपाः। त एव हस्तिपकाः। स्वार्थे कः। उपरिभागाक्रमणानुकूलव्यापारो रुहरेर्थः। तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारः सोपानगमनादिः। इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षितः। तच्च नीचीकरणं। तदाह– न्यग्भावयन्तीति। अत्र उपरिभागाक्रमणानुकूलन्यग्भवनानुकूलोऽङ्कुशपातादिव्र्यापारः। उपरिभागाक्रमणानुकूलन्यग्भवनं फलम्। तदाश्रयत्वाद्धस्ती कर्म। तादृशव्यापारश्रयत्वाद्धस्तिपकाः कर्तारः। अत द्वितीयकक्ष्यामाह– तत इति। प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति, हस्तीति न्यग्भवतीत्यर्थः। प्रेषणांऽशपरित्यागे फलितमाह– न्यग्भवतीत्यर्थ इति। अथ तृतीयकक्ष्यामाह– ततो णिजिति। प्रेषणांऽशं परित्यज्य न्यग्भवनार्थकत्वमाश्रिताद्धातोः प्रेषणविवक्षायायं हेतुमण्णिजिति भावः। आरोहयन्तीति। `हस्तिनं हस्तिपका' इति शेषः। प्रेषणांशनिवृत्तौ णिजन्तस्य फलितमर्थमाह— आरोहन्तीत्यर्थ इति। आक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत्। चतुर्थकक्ष्यामाह– तत इति। अविवक्षितप्रेषणाण्ण्यन्तात्प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूपमित्यर्थः। प्रेषणांऽशत्यागे सति ण्यन्तस्य फलितमर्थमाह- - न्यग्भवतीत्यर्थ इति.तददेवं `निवृत्तप्रेषणाअद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति पक्षमाश्रित्योदाह्मतम्। इदानीमध्यारोपितप्रेषणपक्षमाश्रित्य आह– यद्वेति। पश्यन्तीति। पश्यनति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्या पूर्ववद्व्याख्येयेत्यर्थः। द्वितयीकक्ष्यामाह– ततः कर्मण इति। दृशे रुहेश्च प्थमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजकर्तृकत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः। दर्शयति भव इति। `भक्ता'निति शेषः। तदाह– पश्त आरोहतश्च प्रेरयतीत्यर्थ इति। चाक्षुषज्ञानविषयत्वमापादयतो भक्तान्भवः प्रेरयति, न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः। उभयत्रहेतुमण्णिच्। तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकं प्रेरणम्। णिचा तु तद्विषयकमेकैकं प्रेरणान्तरं प्रतीयते इति स्थितिः। चतुर्थकक्ष्यामाह— ततो णिज्भ्यामिति। हेतुमण्णिज्भ्यां, तत्प्रकृतिभूतदृशिरुहिभ्यां च उपात्तयोः प्रेरणयोस्त्यागे सत चाक्षुषज्ञानविषयो भवति भव इति, न्यग्भवति हस्तीति चार्थः पर्यवस्यति। तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयति भवः, आरोहयते हस्तीति च सिद्धमित्यर्थः। पश्यन्ति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्, प्रथमकक्ष्यायामणौ या क्रिया तस्या एवाऽत्र तृतीयकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्,प्रथमकक्ष्यामणौ या चाक्षुषज्ञानविषयं कुर्वन्तीति, न्यग्भावयन्तीति प्रकृत्युपात्तस्यप्रेषणांशसय् तृतीयकक्ष्यायां त्यागागदणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशसय्कथं प्रवृत्तिरिति वाच्यम्, `सैव चेण्ण्यन्तेने'त्यत्र आधिक्यमात्रं व्यवच्छिद्यते, नतु न्यूनत्वमपीत्यदोषात्। ननु द्वितीयकक्ष्यामेव कुतो न तङित्यत आह– अस्मिन्पक्षे द्वितीयेति। कुत इत्यत आह– समानक्रियत्वाभावादिति। द्वितीयकक्ष्यायामणौ या क्रिया सैव चेण्ण्य्नतेनोच्येतेत्यंशस्याऽभावादिति यावत्। तदेवोपपादयति– णिजर्थस्येति। णेरिति किम् ?। पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत्। स्मरति वनगुल्मं कोकिल इति। स्मृतिविषयत्वमापादयतीत्यर्थः। पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितयीतृतीयकक्ष्योरप्युपलक्षणम्। तत्र निवृत्तप्रेषणपक्षे `स्मरति वनगुल्मट इति द्वितीयकक्ष्या। स्मृतिविषयो भवतीत्यर्थः। `स्मरयति वनगुल्मं कोकिल' इति तृतीयकक्ष्या। स्मृतिविषयत्वमापादयतीत्यर्थः। द्वितीयकक्ष्या। प्रेषणपक्षे तु `स्मरयति वनगुल्मः कोकिल'मिति द्वितीयकक्ष्या। स्मरन्तं प्रेरयतीत्यर्थः। स्मरयति वनगुल्म इति। प्रत्युदाहरणमिदम्. निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा। अध्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम्। `स्मृ आध्याने' इति घाटादिकत्वेन मित्त्वद्ध्रस्वः। विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्दोन्दुशेखरेष्वनुसन्धेयः।

तत्त्वबोधिनी

466 णेरणौ यत्कर्म। आत्मनेपदमित्यधिक्रियते। इहावान्तरवाक्यानि चत्वारि प्रतीयन्ते। `णेरात्मनेपद'मित्येकं वाक्यम्। तच्च स्यादित्यन्तेन व्याख्यातम्। `अणौ यत्कर्म णौ चे'दिति द्वितीयम्। कर्मशब्दः क्रियापरः `कर्तरि कर्मव्यतिहारे' इति वत्। तथा च अणौ या क्रिया सैव ण्यन्ते चेदित्यर्थः। एवं स्थिते फलितमाह– सैव चेण्ण्यन्तेनोच्येतेति। स कर्ते'ति तृतीयं वाक्यम्। अणावित्यादि चेच्छब्दान्तमिहानुर्तते। कर्मशब्दश्चात्र कारकविशेषपरः, शब्दाधिकाराश्रयणात्, तदेतद्व्याचष्टे– अणौ यदित्यादिना, स्यादित्यन्तेन। `अनाध्याने' इति वाक्यान्तरं व्याचष्टे – न त्विति। आध्यानमुत्कण्ठापूर्वकं स्मरणम्। वस्तुतस्तु पर्युदास एव लाघवादाश्रयणीयः। अस्मिन्पक्षे आध्यानभिन्ने इत्यर्थे सति फलितो- `न त्वाध्याने' नेयः। तथा च अत्र वाक्यत्रयमेवेति बोध्यम्। विकल्प इति। `परत्वात्प्राप्ते' इत्युत्तरेणान्वयः। पूर्वविप्रतिषेधेनेति। `विभाषोपपदेने'त्यस्यावकाशः–स्वं यज्ञं यजति। स्वं यज्ञं यजते इत्यादि। `णेरणा' वित्यस्य तु– दर्शयते राजेत्यादि। तथा `अणावकर्मका' दित्यस्य –शेते कृष्णस्तं गोपी शाययतीत्यवकाशः। `णेरणौ' इत्यस्य तु- - लावयते केदारः स्वयमेवेति। तत्र हि लूयते केदार इति द्वितीयकक्षायामणावकर्मकत्वादिति भावः। न च `पश्यति भव' इतिवद्द्वितीयकक्षायां `लुनाति केदार' इत्येव प्रयोग इति भ्रमितव्यम्। लवनस्य कर्मस्थक्रियात्वेन `कर्मवत्कर्मणे'ति यगात्मनेपदप्रवृत्तेः। नव्यास्तु `अणावकर्मका' दित्यस्य बाधे `दर्शयते राजे'ति भाष्यप्रयोगो मानम्। तत्र हि निवृत्तप्रेषमपक्षे दृशेरणावकर्मकत्वाच्चित्तवत्कर्त्तृकत्वाच्च परस्मैपदप्राप्तेः। `विभाषोपपदेने'ति विकल्पबाधेतु न किंचिन्मानम्। किं च `अणावकर्मका'दित्यस्य बाधेऽपि नास्त्येव प्रमाणम्, पूर्वोक्तभाष्यस्य परगामिनि क्रियाफले चरितार्थत्वात्। तथा च कर्तृगामिनि क्रियाफले परत्वात् `अणावकर्मका' दित्यस्य प्रवृत्तौ न किंचिद्बाधकमस्तीति `पूर्वविप्रतिषेधेनेदमेवेष्यते' इत्येतच्चिन्त्यमित्याहुः। वस्तुतस्तु `णेरणौ' इति सूत्रस्याऽचित्त्वत्कर्तृकेऽपि लावयते केदार इत्यादौ चरितार्थत्वात् `अणावकर्मका' दित्यनेन परगामिनि क्रियफलेऽपि परत्वात्परस्मैपदे प्राप्ते दर्शयते राजेति भाष्यप्रयोगबलात्पूर्वविप्रतिषेधाभ्युपगमेन `णेरणौ' इत्यात्मनेपदप्रवृत्तावपि `आत्मार्थं दर्शयते' `स्वार्थं दर्शयते' इत्यादौ परत्वात् `विभाषोपपदेने'त्यस्य प्रवृत्तौ न किंचिद्बाधकमस्ति। ततोऽपि परत्वात् `अणावकर्मका' दिति परस्मैपदमेव स्यादिति तद्बाधेन पूर्वविप्रतिषेधे स्वीकृते `विभाषोपपदेने'त्यस्याप्यर्थात्पूर्वविप्रतिषेधेन बाधो जात एवेति चेत्, एवं तर्हि `दर्शयते राजे'ति भाष्यप्रयोगस्य केवले चरितार्थत्वात्सोपपदप्रयोगे `अणावकर्मका' दिति गतार्थत्वशङ्कां निरस्यति–कर्तस्थभावका इति। अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः।ष सपरिस्पन्दनसाधनसाध्या तु क्रिया। साधनं = कारकं, तत्साध्यत्वाद्धात्वर्थस्य। ननु `नृत्यन्तं भवं पश्यती'त्यत्र दृशेः कर्तृस्थभावकता न स्यात्, किं तु कर्तृस्थक्रियाकतैव स्यात्। न च साधनशब्देन लकारवाच्यं कारकं विवक्षितमिति वाच्यं, नृत्यन्भवः पश्यतीत्यत्र तद्दोषतादवस्थ्यादिति चेत्। अत्राहुः– आरोहणादौ सपरिन्पन्द एव देवदत्तादिर्यथा साधनतथा दर्शनश्रवणादौ न भवति किंतु स्पन्दनरहितोऽपि नोक्तदोष इति। कर्तृस्थभावकमुदाहरति–पश्यन्तीति। प्रेरणांशेति। सौकर्यविवक्षयेति भाव-। तत इति। त्यक्तप्रेरणांशकाद्धातोरित्यर्थः। पुनण्र्यर्थस्येत्यादि। न चैवं णिजपि गच्छतीति `दर्शयते भव' इति न सिध्येदिति वाच्यम्, उपायनिवृत्तावप्युपेयाऽनिवर्तनादिति कैयटोक्तेः। तत्र तृतीयायेति। प्रथमाद्वितीययोस्तु ण्यन्तत्वाऽभावात्तङः प्रसक्तिरेव नास्तीति बावः। क्रियासाम्येऽपीति। प्रथमकक्षया सहेत्यर्थः। द्वितीयामादायेति। `अणौ या क्रिया सैव चेण्ण्यन्ते' इत्यस्य न्यूनाधिकभावव्यवच्छेदपरत्वमभ्युपेत्येदमुक्तम्। यदा त्वधिकव्यवच्छेदमात्रपरत्वमभ्युपगम्यते तदा प्रथमामादाय तत्संभवति। इदानीं कर्तृस्थक्रियाकमुदाहरति– एवमित्यादिना। आरोहति हस्तीति। प्रेषणांशत्यागे उदाहरणमिदम्। ततो णिजैति। निवृत्तप्रेषणाद्धातोः प्रेषणांऽशविवक्षायां णिजित्यर्थः। पुनण्र्यर्थस्याऽविवक्षायामुदाहरणमाह– आरोहयते इति। एवं निवृत्तप्रेषणपक्षमुपपाद्येदानीमध्यारोपितप्रेषणपक्षमाह– यद्वेति। हेतुत्वारोपादिति। प्रयोजककर्तृत्वारोपादित्यर्थः। अत्रापि सौकर्यविवक्षैव बीजम्। पश्यत इति। पश्यतो भक्तान्, आरोहतो हस्तिपकानिति क्रमेणाऽर्थः। आधिक्यादिति। `अस्मिन्पक्षे णौ चेत्सा क्रियेत्यनेन आधिक्यमात्रं व्यवच्छिद्यते न तु न्यूनत्वमपि। अन्यथा तृतीयक्षायामपि तङ् न स्यात्, प्रकृत्युपात्तप्रेषणाशंस्य त्यागेन न्यूनतायाः सत्त्वादिति भावः। णेरिति किम् ?। पश्यत्यारोहतीत्यादिनिवृत्तप्रेषमान्म#आभूत्। न च `णौ चे'दिति श्रुतत्वाण्ण्यन्तादेव स्यादिति वाच्यम्, अणावित्यस्यापि श्रुतत्वात्। तस्याऽग्रिमयोगार्थमवश्यं कर्तव्यस्य स्पष्टार्थमिहैव कर्तृमौचित्याच्च। अणौ या क्रिया सैव चेण्ण्यन्ते किम् ?। दर्शयति भवः, आरोहयति हस्तीत्यध्यारोपितप्रेषमपक्षे द्वितीयकक्षायां माभूत्। कथं तर्हि `करेणुरारोहयते निषादिन'मिति माघप्रयोगः, `स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव सादु बन्धुता' मिति भारविप्रयोगश्च सङ्गच्छत इति चेत्। अत्राहुः– `णिचश्चे' त्यनेन क्रियाफले कर्तृगामिनि तङ्, न तु प्रकृतसूत्रेणेति। अणौ यत्कर्म कारकं णौ चेत्स कर्तेति किम्?। दर्शयन्ति भवमिति निवृत्तप्रेषणपक्षे चतुर्थकक्षेयम्। आध्यारोपितपक्षे तु तृतीयकक्षेति ज्ञेयम्। केचित्तु एतत्सूत्रस्थे भाष्ये दर्शयते भृत्यान्राजेत्युदाहरणं, स्मरयत्येनं वनगुल्मैति प्रत्युदाहरणं च दृश्यते। ततश्च अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामेवाऽनेनात्मनेपदं भवति, न तु तृतीयकक्षायामिति प्रतीयते। तथा च कर्मपदमावर्त्त्य तस्य क्रियावाचित्वं स्वीकृत्याऽणौ या क्रियासैव चेण्ण्यन्तेनोच्येतेति वाक्यान्तराभ्युपगमेऽप्येवकारेणाऽधिक्यं न व्यवच्छिद्यते, किं तु न्यूनतैवेत्यस्मादेव भाष्यादवगम्यते। एवं च `दर्शयते भवः' `आरोहयते हस्ती'ति कर्मप्रयोगरहितं मूलग्रन्थस्योदाहरणं,`स्मरयति वनगुल्म' इति प्रत्युदाहरणं च भाष्यविरुद्धमेवेत्याहुः। अन्यैस्त्वविविक्षितमिह क्रमेत्युक्त्वाऽत्र मूलग्रन्थाऽविरोधेनैव भाष्यग्रन्थः समर्थितः।तेषामयमाशयः– `गभीरायां नद्यां घोष' इत्यत्र गभीराऽभिन्ननद्यामिति गभीरनदीपदार्थयोरभेदबोधानन्तरं तीरलक्षणायां तीरस्य गभीरत्वाऽभावात्, नद्यास्तु गभीरत्वेऽप्येकदेशान्वयाऽसंभवाच्च अनर्थकमपि गभीरायामिति पदं प्राथमिकबोधमादाय यथा सार्थकं, तद्वदिहापि अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्यन्वितं, ततो णिजर्थस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय सार्थक्यम्। स्वबोध्यसंबन्धो लक्षणेत्यभ्युपगमात्। विशिष्टवाक्यार्थस्य चेह बोध्यत्वेन तत्संबन्धस्य बोधतृकतारूपस्य वाक्ये सत्त्वात्। एषैवार्थवादैः प्राशस्त्यलक्षणायां गतिः। अन्यथा `वायव्यं \उfffदोतमालबेत बूतिकामः' इत्यादिविधिवाक्यस्य योऽर्थवादः `वायुर्वैक्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति' `स एवैनं भूति गमयति' इत्यादिस्तत्र `वायुमेव स्वेन भागधेयेन' `स एवैन' मित्य#आदिरूपस्य विभक्तिभेदेन प्रयोगस्य वैयथ्र्यं स्यादिति। नन्वेतत्सूत्रस्योदाहरमं प्रत्युदाहरणं च यताश्रुतभाष्यानुसारेण सकर्मकमेवास्तु किमनेन विद्यमानकर्मणोऽविवक्षितत्वोपपादनक्लेशेनेति चेत्। मैवम्। निवृत्तप्रेषमपक्षे दर्शयते भव इत्याद्युदाहरणस्य प्रत्युदाहरणस्य च कर्मरहितस्य स्वीकर्तव्यतया तदैकरूप्यस्याऽस्मिन्नपि पक्षे अकर्मकोदाहरमप्रत्युदाहरणयोः सिद्ध्ये कर्मणोऽविवक्षितत्वाव्याख्याया उचितत्वात्। किंच `कर्मवत्कर्मणे' त्यनेनैव सिद्धे कर्तृस्थभावक्रियार्थं सूत्रमिति भाष्यग्रन्थस्वारस्यादप्यकर्मकमेवोदाहरणं प्रत्युदाहरणं चायाति। न च `कर्मवत्कर्मणे'ति सूत्रे तुल्यशब्देनापि कर्मस्थक्रियातो न्यूनतैव व्यवच्छिद्यते न त्वाधिक्यमिति स्वीकृते नास्ति भाष्यग्रन्थस्वारस्यभङ्ग इति वाच्यं, तथा हि सति `कर्मवत्कर्मस्थक्रिय' इत्युक्तेऽपि कर्मस्था क्रिया यस्य कर्तुः स कर्ता कर्मवदित्यर्थलाभात्तत्समीहितसिद्धौ `कर्मणा तुल्यक्रिय' इत्यस्य वैयथ्र्यापत्तेः। द्वितीयकक्षायां भवे हस्तिनि च विषयत्वापादनविषयकप्रेरणायाश्च न्यग्भवनविषयप्रेरणायाश्च सत्त्वेऽपि विषयत्वापत्तिरूपाया न्यग्भवनरूपायाश्च कर्मस्थक्रियायाः सत्त्वात्। यदि तु `कर्मणा तुल्यक्रियः' इत्येतत्सार्थक्याय तुल्यशब्देनात्र न्यूनाधिकव्यवच्चेदः क्रियत इत्युच्यते, तदा `कर्मवत्कर्मणे'ति सूत्रस्य द्वितयीकक्षायामप्रवृत्तेः `कर्मवत्कर्मणेत्यनेनैव सिद्धे' इत्यादिभाष्यग्रन्थस्वारस्यभङ्गो भवत्येव। ततश्च अध्यारोपितप्रेषणपक्षे तृतीयकक्षायामेवोदाहरणं, न तु द्वितयीकक्षायामित्यभ्युपगन्तव्यम्। एतेनाध्यारोपितप्रेषणपक्षे णौ चेत्सा क्रियेत्यनेनाधिक्यमात्रं व्यवच्छिद्यते न्यूनत्वं नेत्यत्र विनिगमनाऽभावान्न्यूनत्वव्यवच्छेद एव स्वीकृते, द्वितयीकक्षायां तङ् दुर्वार इति न्यूनाधिकव्यवच्छेद एव ग्राह्रस्तेन कक्षाचतुष्टयपक्ष एव साधीयानिति वदन्तः परास्ताः। दर्शयते भृत्यान् राजेति भाष्योदाहरबलेन अध्यारोपितपक्षस्यैव प्रबलत्वादिति दिक्। गृधिवञ्च्योः प्रलभने। अकत्र्रभिप्रायार्थ आरम्भः।

Satishji's सूत्र-सूचिः

TBD.