Table of Contents

<<1-3-64 —- 1-3-66>>

1-3-65 समः क्ष्णुवः

प्रथमावृत्तिः

TBD.

काशिका

क्ष्णु तेजने परस्मैपदी। ततः सम्पूर्वातात्मनेपदं भवति। समो गम्यृच्छि 1-3-29 इत्यत्र एव कस्मान् न पठितः? अकर्मकातिति तत्र वर्तते। संक्ष्णुते षस्त्रम्। संक्ष्णुवाते, संक्ष्णुवते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

560 समः क्ष्णुवः। `आत्मनेपद'मिति शेष`समो गम्यृच्चिभ्या'मित्यत्रैव `समो गम्यृच्छिक्ष् णुव' इति न सूत्रितं , तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात्। तत्सूचयन्नुदाहरति– संक्ष्णुते शस्त्रमिति। तीक्ष्णीकरोतीत्यर्थः।

तत्त्वबोधिनी

464 समः क्ष्णुवः। `समो गम्यृच्छिक्ष्णुभ्यः' इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्तं इति ध्वनयन्नुदाहरति– संक्ष्णुतेशस्त्रमिति।

Satishji's सूत्र-सूचिः

TBD.