Table of Contents

<<8-2-29 —- 8-2-31>>

8-2-30 चोः कुः

प्रथमावृत्तिः

TBD.

काशिका

चवर्गस्य कवर्गादेशो भवति झलि परतः, पदान्ते च। पक्ता। पक्तुम्। पक्तव्यम्। ओदनपक्। वक्ता। वक्तुम्। वक्तव्यम्। वाक्। क्रुञ्चा इत्यत्र सिङि इति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति, युजिक्रुञ्चां च इति निपातनाद् वा। नकारोपधो वा धातुरयं रेफरहितश्च क्रुञ्च कौटिल्याल्पीभावयोः इति पठ्यते। नकारलोपे हि निकुचितिः इति दृश्यते। युजिक्रुञ्चां च इति तस्यैव रेफो ऽधिको नकारस्य लोपाभावश्च इति निपात्यते। तत्र अनुस्वारस्य परसवर्णस्य च असिद्धत्वात् ञकार एव न अस्ति इति कुत्वं न भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

308 चवर्गस्य कवर्गः स्याज्झलि पदान्ते च. सुयुक्, सुयुग्. सुयुजौ. सुयुग्भ्याम्.. खन्. खञ्जौ. खन्भ्याम्..

बालमनोरमा

युक्षु। `असमासे' इत्यस्य व्यावर्त्त्यं सुयुज्शब्दं कथयिष्यंस्तत्र विशेषमाह–चोः कुः। `झलो झली'त्यतो `झली'त्यनुवर्तते। `पदस्ये त्यधिकृतम्। `स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते, तदाह-चवर्गस्येति। ननु `चोः' इत्यत्र उकारस्य उपदेशाऽभावादित्त्वाऽभावेन उदित्त्वाऽभावात्कथमिह सवर्णग्रहणमिति चेन्न, चोरित्युकारान्तग्रहणसामथ्र्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात्। अन्यथा `चः कुः' इत्येव ब्राऊयादिति। कुत्वमिति। सुयुज्शब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादाल्पप्राणसाम्याद्यथासंख्यसूत्राच्चेति भावः। नन्विह `क्विन्प्रत्ययस्ये'त्येव कुत्वं कुतो न स्यात्। यद्यपि सुपूर्वाद्युजेः `सत्सूदिषे'त्यादिना क्विपि उपपदसमासे सुयुज्शब्दो न क्विन्नन्तोऽयम्। निरुपपदाद्युजेः क्विन्निति अनुपदेमेवोक्तत्वात्। तथापि क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणात्संप्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह– क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति। तथा चात्र `चोः कु'रित्येव न्याय्यमिति भावः। सुयुक्सुयुगिति। `वाऽवसाने' इति चत्र्वविकल्पः। ननु युगित्यपि रूपमिष्टं कथं सिध्येत्, क्विनि नुम#इ युङित्येवापत्तेः। नच `ऋत्वि'गित्यादिसूत्रे `युजेरसमासे' इति सूत्रे च युजीति इकारावेशिष्टस्यैव निर्देशात् `युज समाधौ' इति दैवादिकस्य अकारान्तस्याऽग्रहणात्ततः `क्विप् चे'ति क्विपि नुमबावे कुत्वे युगिति सिध्यतीति वाच्यम्, `इक्श्तिपौ धातुनिर्देशे' इति इक्प्रत्ययान्तत्वस्य उभयत्रापि संभवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह–युजेरिति। `युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे `युजिर्योगे' इतीकारविशिष्टो यः पठितस्तस्यैव रेफशिरस्कतया ग्रहणं, नत्विका निर्देशः, व्याख्यानादित्यर्थः। ततः किमित्यत आह–तेनेति। `खजि गतिवैक्लव्ये' क्विप्, इदित्त्वान्नुम्। `नश्चापदान्तस्ये'त्यनुस्वारः, परसवर्णो ञकारः। खञ्ज्शब्दः तस्य विशेषमाहसंयोगान्तेति। हल्ङ्यादिना सुलोपे जकारस्य संयोगान्तलोपः। ततो निमित्तापायादनुस्वारपरसवर्णयोर्निवृत्तिः। खन्निति रूपमित्यर्थः। `अनिदिता'मिति नलोपस्तु न, इदित्त्वात्। `राजृ दीप्तौ' इत्यस्मात्क्विपि राज्शब्दः। तस्य विशेषमाह–व्रश्चेति। हल्ङ्यादिना सुलोपे `व्रश्चे'ति षत्वम्। जश्त्वेन डकारः। `वाऽवसाने' इति चत्र्वविकल्पः। भ्यामादौ `स्वादिषु' इति पदत्वात् षत्वं जश्त्वं च। राड्भ्यामित्यादि। `ङः सि धु'डिति विकल्पं मत्वाह–राट्त्सु, राट्स्विति। एवं विभ्राडिति। राज्शब्दवत्षत्वादीत्यर्थः। `टु भ्राजृ दीप्तौ'क्विप्। विशिष्ट भ्राजते इति विभ्राट्। देवान् यजतीति देवेट्। देवान् यजतीति विग्रहे क्विपि यजादित्वा'द्वचिस्व'पीति संप्रसारणम्। `अद्गुणः'। वि\उfffदासृडिति। `सृज विसर्गे'क्विपि `व्रश्चे'ति षत्वादि। ननु क्विबन्तेऽपि देवेज्शब्दे वि\उfffदासृज्शब्देच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणादृत्विक्शब्दवत्कुत्वं कुतो न स्यादित्यत आह–इहेति। `सृजिदृशो'रिति सूत्रे काम्यच्सूत्रे च वि\उfffदासृज्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात् `क्विन्प्रत्यस्ये'ति कुत्वं नेत्यर्थः। परिमृडिति। `मृजू शुद्धौ' क्विप्। `क्ङिति चे'ति निषेधात् `मृजेर्वृद्धि'रिति न भवति। `व्रश्चे'ति षत्वम्। परिमार्ष्टीति परिमृट्। अथ विभ्रागिति औणादिकसूत्रमेतत्। `क्विब्वचिप्रच्छी'त्यादिपूर्वसूत्रात्क्विबिति दीर्घ इति चानुवर्तते। `पदान्त' इति `ष' इत्येनेनैव संबध्यते, नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात्। तदाह– परावुपपदे इत्यादिना। षत्वं चेति। `चोः कुः' इत्यस्यापवाद इति भावः। वि\उfffदास्मिन् राजते इत्यर्थे `सत्सूद्विषे'त्यादिना क्विपि उपपदसमासे वि\उfffदाराज्शब्दाः।

तत्त्वबोधिनी

338 सुयुगिति। सुष्ठु युनक्तीति विग्रहे`सत्सूद्विषे'ति क्विप्। तेनेह नेति। नम्नेकत्यर्थः। क्विन्प्रत्ययस्तु स्यादेव, `ऋत्वि'गित्यादिसूत्रे`युजी'ति इका निर्देशात्। खन्निति। खञ्जतीनि खन्। `खजि गतिवैकल्ये'। एवं विभ्राडिति। फणादिरयम्। विशेषे भ्राजते इथि विभ्राट्। देवान् यजतीति देवेट्। क्विपि यजादित्वात्संप्रसारणे आद्गुणः। वि\उfffदां सृजतीति वि\उfffदासृट्, क्विबन्तः। क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रणात्कुत्वं कस्मान्न भवतीत्यशङ्क्याह—नेति क्लीबे वक्ष्यत इति।`रज्जुसृङ्भ्या'मिति भाष्यकारप्रयोगात्। यद्वा `व्र\उfffदाआदिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः'इति वक्ष्यत इत्यर्थः। परिमार्ष्टीति— परिमृट्। परौ व्रजेः। `क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे'त्यौणादिकात्पूर्वसूत्रादिह क्विब्दीर्घावनुवर्तेते, तदाह– क्विप्स्याद्दीर्घश्चेति।

Satishji's सूत्र-सूचिः

219) चोः कुः 8-2-30

वृत्ति: चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। The consonants of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”) get the consonants of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

Example continued:
ऋत्विज् + सुँ = ऋत्विज् 1-3-2, 6-1-68

Now ऋत्विज् gets the पद-सञ्ज्ञा by 1-1-62, 1-4-14. And hence the ending जकार: would be replaced by the closest letter of the क-वर्ग: – which is गकार: – but the next rule intervenes.