Table of Contents

<<8-4-57 —- 8-4-59>>

8-4-58 अनुस्वारस्य ययि परसवर्णः

प्रथमावृत्तिः

TBD.

काशिका

अनुस्वारस्य ययि परतः प्रस्वर्णः आदेशो भवति। शङ्किता। शङ्कितुम्। शङ्कितव्यम्। उञ्छिता। उञ्छितुम्। उञ्छितव्यम्। कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। नन्दिता। नन्दितुम्। नन्दितव्यम्। कम्पिता। कम्पितुम्। कम्पितव्यम्। इह कुर्वन्ति, वृषन्ति इत्यत्र णत्वस्य असिद्धत्वात् पूर्वं नकारस्य अनुस्वारः क्रियते। तस्य अपि परसवर्णेन पुनर् नकार एव भवति। तस्य अपि असिद्धत्वात् पुनर् णत्वं न भवति। एवम् अनुस्वारीभूतो णत्वम् अतिक्रामति इति। ययि इति किम्? आक्रंस्यते। आचिक्रंस्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

79 स्पष्टम्. शान्तः..

बालमनोरमा

125 अनुस्वारस्य ययि। स्पष्टमिति। अनुवत्र्यपदान्तराभावादिति भावः। अङ्कित इति। अन्क पदे लक्षणे चेति चुरादौ नौपधः। नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित्। ण्यन्तात् क्तः, इट्। निष्ठायां सेटीति णिलोपः। अनुस्वारस्यानेन परसवर्णः। परनिमित्तमत्र ककारः, तत्सवर्णः कवर्गः। सोऽनुस्वारस्य भवन् नासिकारस्थानसाम्याङकार एव भवति। अञ्चित इति। अन्?चु गतिपूजनयोः। नोपधः। तस्मात्। क्तः। अञ्चेः पूजायामिति इट्। नाञ्चेः पूजायामिति निषेधादनिदितामिति नलोपो न। अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो ञकारः। कुण्ठित इति। कुठि प्रतिघाते। इदित्त्वान्नुम्। क्त इट्। अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः। शान्त इति। शम उपशमे। क्तः। वा दान्तशान्तेत्यादिनिपातनान्नेट्। अनुनासिकस्य क्वीति दीर्घः। नश्चेति मस्यानुस्वारः। तस्यं परसवर्णो नकारः। गुम्फित इति। गुन्?फ ग्रन्थे- द्वितीयान्तः चतुर्थान्तो वा, नोपधः। क्तः इट्। `नोपधात्थफान्ताद्वा' इत्यकित्त्वपक्षे नलोपो न। अत्र नश्चेत्यनुस्वारस्य परसवर्णो मकारः। ननु कृञ्धातोर्लट्, झिः, झोऽन्तः, तनादिकृञ्भ्य उः, गुणः, परत्वम्। `अत उत्स#आर्वधातुके'। उकारस्य यण्। न भकुर्छुरामिति निषेधात् र्वौरुपधाया इति दीर्घो न। कुर्वन्तीति रूपम्। अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वाद्रषाभ्यामिति णत्वं स्यात्। न च त्रिपाद्यां नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वादनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम्। एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वारत्वादित्यत आह–कुर्वन्तीत्यादि। रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्याऽसिद्धत्वान्न णत्वमिति भावः।

तत्त्वबोधिनी

99 अनुस्वारस्य। अत्र `ययी'ति स्पष्टार्थम्, अचि परेऽनुस्वाराऽभावात्। शलि तु परसवर्णोऽनुस्वारान्तरतमो न संभवतीति `कुण्डं रथेने'त्यत्रेव `दंशन'मित्यादावपि परसवर्णविध्यप्रवृत्तेः। अत्र वदन्ति-`ईषद्विवृतमूष्माणां, विवृतं स्वराणा'मिति भाष्यमते `ययी'त्यास्यापार्थकत्वम्। सूत्रकारमते तदावश्यकमेव। अन्यथा `दशन'मित्यादावनुस्वारान्तरतमः परसवर्णोऽनुनासिक ईकारः स्यात्। ईकारशकारयोस्तन्मते सावण्र्यस्य सत्त्वात्। तथा `कुण्डं शेते' इत्यादावनुस्वारस्य `वा पदान्तस्ये'ति स्यादिति। अङ्कित इति। `अङ्क पदे लक्षणे चे'ति चुरादिण्यन्तात्क्तः। `निष्ठायां सेटी'ति णिलोपः। परसवर्णेन ङः। `अकि लक्षणे' इत्यस्माद्वा क्तः। नुमोऽनुस्वारे परसवर्णेन ङः। अञ्चित इति। `अञ्चेः पूजाया'मिति निष्ठायामिट्। `नाऽचे'रिति नलोपनिषेधः। णः। `अनुनासिकस्य क्वी'ति दीर्घः। मस्यानुस्वारे परसवर्णेन नकारः। गुम्फित इति। `गुम्फ ग्रन्थे'क्तः। मस्यानुस्वारे परसवर्णेन मः॥

Satishji's सूत्र-सूचिः

203) अनुस्वारस्य ययि परसवर्णः 8-4-58

वृत्ति: अनुस्वारस्य ययि परतः परसवर्णादेशो भवति। When a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

उदाहरणम् – मघवन् + औ = मघवत् + औ 6-4-128, 1-3-2 = मघवन्त् + औ 7-1-70, 1-1-47, 1-3-2, 1-3-3 = मघवंतौ 8-3-24 = मघवन्तौ 8-4-58