Table of Contents

<<6-4-110 —- 6-4-112>>

6-4-111 श्नसोरल्लोपः

प्रथमावृत्तिः

श्नसोः ६/२ अत् ६/१ (लुप्तविभक्तिको निर्देशः) लोपः १/१ सार्वधातुके ७/१ क्ङिति ७/१
हिन्दी – [श्नसोः] श्नम् प्रत्यय तथा अस् धातु के [अल्लोपः] अकार का लो होता है, कित् ङित् सार्वधातुक परे रहते।

काशिका

श्नस्य अस्तेश्च अकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। रुन्धः। रुन्धन्ति। भिन्तः। भिन्दन्ति। अस्तेः स्तः। सन्ति। क्ङिति इत्येव भिनत्ति। अस्ति। श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिसु द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

Before a Saaravadhaatuka कित् or ङित् affix, the अ of श्न and अस् is elided. #

लघु

577 श्नस्यास्तेश्चाऽतो लोपः सार्वधातुके क्ङिति । स्तः, सन्ति । असि. स्थः. स्थ । अस्मि, स्वः, स्मः ॥

बालमनोरमा

300 श्नसोरल्लोपः। `अ'दिति लुप्तष्ठीकं पदम्। श्न अस् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम्। शकन्ध्वादित्वात् पररूपम्। श्नेति श्नम्प्रत्ययैकदेशनिर्देशः। `अत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते, `गगमहने'त्यतः क्ङितीति। तदाह–श्नस्येत्यादिना।

तत्त्वबोधिनी

260 श्नसोरल्लोपः। `अत उ' दिति सूत्रादत इत्यनुवत्र्याऽद्ग्रहणं त्यक्तुं शक्यमित्याहुः। श्नसोरिति। शकन्ध्वादित्वात्पररूपमित्याह– श्नस्याऽस्तेश्चेति। श्नस्योदाहरणं [रुन्धः]। रुन्धन्तीत्यादि। क्ङिति किम् ?। रुणद्धि। अस्ति। तपरकरणमास्तामासन्नित्यत्र ह्राडागमे कृते तस्य लोपो माभूदित्येतदर्थम्। निष्कर्षस्तु अनुपदं स्फुटीभविष्यति।

Satishji's सूत्र-सूचिः

382) श्नसोरल्लोपः 6-4-111

वृत्तिः श्‍नस्‍यास्‍तेश्‍चातो लोपः सार्वधातुके क्ङिति। The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।

उदाहरणम् – स्तः (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

अस् + लँट् 3-2-123 = अस् + ल् 1-3-2, 1-3-3
= अस् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + तस् 1-3-4 = अस् + शप् + तस् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + तस् 2-4-72 = स्तस् 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply) = स्तः 8-2-66, 8-3-15.