Table of Contents

<<1-1-46 —- 1-1-48>>

1-1-47 मिदचो ऽन्त्यात् परः

प्रथमावृत्तिः

TBD.

काशिका

अचः इति निर्धारणे षष्ठी. जातौ च इदम् एकवचनम्. अचां संनिविष्टानाम् अन्त्यादचः परो मित् भवति. स्थानेयोग प्रत्यय परत्वस्य अयम् अपवादः. विरुणद्धि. मुञ्चति. पयांसि. मित्प्रदेशाः रुदादिभ्यः श्नम् 3-1-78 इत्येवम् आदयः. मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगाऽदिलोपार्थम्. मग्नः. मग्नवान्. मङ्क्ता. मङ्क्तुम्.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

241 अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्. उपधादीर्घः. ज्ञानानि. पुनस्तद्वत्. शेषं पुंवत्.. एवं धन वन फलादयः..

बालमनोरमा

39 मिदचोऽन्त्यात्परः। मकार इत् यस्य स मित् अन्त्यादचः परो भवतीत्यर्थे `शेमुचादीनाम्' इत्यादाविदं न प्रवर्तेत,तत्रान्त्यस्याचोऽभावादत आह–अच इति षष्ठ\उfffद्न्तमिति। `यतश्च निर्धारणमित्यनेने'ति शेषः। `अच' इत्येकत्वमविवक्षितं, तदाह–अचां मध्य इत्यादिना। अन्तावयव इति। एतच्च आद्यान्तावित्यतोऽन्तग्रहणानुवृत्त्या लभ्यते, आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनाऽनुवृत्तिसंभवात्। आदिग्रहणमनुवत्र्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने सर्वनामस्थाने चासंम्बुद्धौ `इति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत्। अभक्तत्वे तु वहंलिह इत्यत्र `वहाभ्रे लिहः' इति खशि, `अरुर्द्विष'दिति मुमि तस्य `मोऽनुस्वारः' इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात्। वस्तुतस्तु यस्य समुदायस्य मिद्विहितस्तस्याऽचां मध्ये योऽन्त्यस्तस्य समुदायस्याऽन्तावयवय इति व्याख्येयम्। अत एव `समुदायभक्तो मित्' इति भाष्यं सङ्गच्छते। समासाश्रयविधौ मूकारश्च वक्ष्यति–`अङ्गस्य नुम्विधानात्तद्भक्तो हि नु'मिति।

तत्त्वबोधिनी

33 मिदचोऽन्त्यात्परः। स्थानेयोगत्वस्य `प्रत्ययः'-परश्चे'ति परत्वस्य चायमपवादः। यशांसि वनानि। `नपुंसकस्य `झलचः' इति नुम्। रुणद्धि। `रुधादिभ्यः श्नम्'। ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्त्विति चेन्नः, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इतीहाभ्युपगमात्, अन्यथा श्नमो मित्करणं व्यर्थं स्यात्। नच श्रवणार्थ एव मकारः स्यादिति वाच्यम्, `तृणह इ'मिति निर्देशात्। अचां मध्य इति। सूत्रे जात्यभिप्रायेण `अचः' इत्येकवचनमिति भावः। अचां मध्य इति किम् ?, मुञ्चति लुम्पति। `अन्त्यादचः परो मित्स्या'दिति प्राचो व्याख्यायां नैतत्सिध्येत्। `शे मुचादीना'मित्यत्रान्त्यस्याचोऽसंभवेन मित्परिभाषाया अपनुस्थितिप्रसङ्गात्। अन्ये त्वचोऽन्त्यात्परो मित्स्यादिति व्यत्यासेन योजयित्वा प्राचो व्याख्यानमपि कथंचित्समर्थयन्ते। पूर्वसूत्रादन्त इत्यनुवत्र्तते, एकदेशे स्वरितत्वप्रतिज्ञानात्। अतो व्याचष्टे-अन्तावयव इति। तेन `वारीणी'त्यादावङ्गस्य नान्तत्वेन दीर्घः सिद्धः। परादित्वे स न सिध्येत्। अभक्तत्वे तु `वहंलिह' इत्यत्र `वहाभ्रे लिहः' इति खशि `अरुर्द्विष'दिति मुमि मोऽनुस्वारो न स्यात्, अपदान्तत्वादिति भावः। यत्तु कैश्चिदुक्तमभक्तत्वे `वारिणी'ति दीर्घो न स्यादिति, तत् `तदादिग्रहणं स्यादिनुमर्थ'मित्यङ्गसंज्ञासूत्रस्थवार्तिकेनैव दूषितप्रायम्।

Satishji's सूत्र-सूचिः

152) मिदचोऽन्त्यात् परः 1-1-47

वृत्ति: अचां मध्ये योऽन्त्यः, तस्मात्परस्तस्यैवान्तावयवो मित् स्यात्। An augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55 = धननुँम् + शि 7-1-72, 1-1-47 = धनन् + इ 1-3-2, 1-3-3, 1-3-8 = धनानि 6-4-8