Table of Contents

<<8-2-24 —- 8-2-26>>

8-2-25 धि च

प्रथमावृत्तिः

TBD.

काशिका

धकारादौ प्रत्यये परतः सकारस्य लोपो भवति। अलविध्वम्, अलविढ्वम्। अपविध्वम्, अपविढ्वम्। यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च विभाषेटः 8-3-79 इति मूर्धन्याभावपक्षे ऽपि न धकारः श्रूयेत। इतः प्रभृति सिचः सकारस्य लोप इष्यते। इह न भवति, चकाद्धि पलितं शिरः इति। तथा पयो धावति इत्येवम् आदावपि न भवति। सग्धिः, बब्धाम् इति छान्दसो वर्ण लोपः। भाष्यकारस्त्वाह, चकाधि इत्येव भवितव्यम् इति। तेन पयो धावति इत्येवम् आदौ यत्नानतरमास्थेयम्। धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्। आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति। सर्वम् एवं प्रसिद्धं स्याच् छ्रु तिश्चापि न भिद्यते। लुङश्चापि न मुर्धन्ये ग्रहणं सेटि दुष्यति। घसिभसोर् न सिध्येत तस्मात् सिज्ग्रहणं न तत्। छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे। निष्कर्तारमध्वरस्य इत्येवं प्राप्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

517 धादौ प्रत्यये परे सस्य लोपः. एधिताध्वे..

बालमनोरमा

95 अथ ध्वमि टेरेत्वे तासि इटि एधितास्– ध्वे इति स्थिते-धि च। `सः स्यार्धधातुके' इत्यतः स इत्यनुवर्तते। तासस्त्योरित्यतो लोप इति। अङ्गाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते। तदाविविधिः। तदाह– धाताविति। तासः सलोपे `एधिताध्वे' इति रूपम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

433) धि च 8-2-25

वृत्तिः धादौ प्रत्‍यये परे सस्‍य लोपः। A सकारः is elided when followed by a प्रत्ययः beginning with a धकारः।

उदाहरणम् – हिन्धि (√हिन्स्, रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९), लोँट्, मध्यम-पुरुष-एकवचनम्।

हिन्स् + लोँट् 3-3-162
= हिन्स् + ल् 1-3-2, 1-3-3
= हिन्स् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हिन्स् + सि 1-3-3, 1-3-9
= हिन्स् + हि 3-4-87
= हि श्नम् न्स् + हि 3-1-78. श्नम् is a मित्। Hence as per 1-1-47, it is placed after the last vowel (इकार:) of the अङ्गम् “हिन्स्”
= हिनन्स् + हि 1-3-8, 1-3-3
= हिनस् + हि 6-4-23
= हिनस् + धि 6-4-101
= हिन्स् + धि 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: “धि” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
= हिन् + धि 8-2-25 = हिं + धि 8-3-24 = हिन्धि 8-4-58