Table of Contents

<<8-3-78 —- 8-3-80>>

8-3-79 विभाषा इटः

प्रथमावृत्तिः

TBD.

काशिका

इणः परस्मातिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति विभाषा। लविषीढ्वम्, लविषीध्वम्। पविषीढवम्, पविषीध्वम्। लुङ् अलविढवम्, अलविध्वम्। लिट् लुलुविढ्वे, लुलुविध्वे। इणः इत्येव, आसिषीध्वम्। अथ इह कथं भवितव्यम्, उपदिदीयिध्वे? केचिदाहुः, इणन्तादङ्गादुत्तरस्य इट आनन्तर्यं युटा व्यवहितम् इति न भवितव्यं ढत्वेन इति। अपरेषां दर्शनम्, अङ्गातिति निवृत्तम्, इणः इत्यनुवर्तते, ततश्च यकारादेव इनः परो ऽनन्तरः इटिति पक्षे भवितव्यं मूर्धन्येन इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

529 इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः. कामयिषीढ्वम्, कामयिषीध्वम्. कमिषीष्ट. कमिषीध्वम्..

बालमनोरमा

165 विभाषेटः। `इणः षीध्वंलुङ्लिटा धः' इत्यनुवर्तते। `अपदान्तस्ये'त्यतो मूर्धन्य इति च। तदाह– इणः परो य इडित्यादि। इणन्तादङ्गादित्यर्थः। अयिषीढ्वमिति। लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटि `धि चे'ति सलोपः। ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः। अङ्गादिति। निवृत्तमिति केचित्।

तत्त्वबोधिनी

138 लुह्लिटां धस्येति। लिटि लिलिहिढ्वे। लिलिहिध्वे।

Satishji's सूत्र-सूचिः

वृत्ति: इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। Following a “इट्”-आगम: which is itself following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term “षीध्वम्” or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute optionally.

उदाहरणम् – कामयिषीढ्वम्/कामयिषीध्वम्/कमिषीध्वम् derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।

3-1-31 applies here because the intention is to add a आर्धधातुक-प्रत्यय:। (Recall 3-4-116.) Let us first consider the case where the affix “णिङ्” is added.

कमुँ + णिङ् 3-1-30, 3-1-31
= कम् + इ 1-3-2, 1-3-3, 1-3-7, 1-3-9
= कामि 7-2-116. “कामि” gets धातु-सञ्ज्ञा by 3-1-32.

कामि + लिँङ् (आशिषि) 3-3-173
= कामि + ल् 1-3-2, 1-3-3, 1-3-9
= कामि + ध्वम् 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105. As per 3-4-116, the affix “ध्वम् ” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= कामि + सीयुट् ध्वम् 3-4-102, 1-1-46
= कामि + सीय् ध्वम् 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix “सीय् ध्वम्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= कामि + सीध्वम् 6-1-66
= कामि + इसीध्वम् 7-2-35, 1-1-46, 1-3-3
= कामे + इसीध्वम् 7-3-84
= कामय् + इसीध्वम् 6-1-78
= कामय् + इषीध्वम् 8-3-59
= कामयिषीढ्वम्/कामयिषीध्वम् 8-3-79

In the case where the affix “णिङ्” is not added (by 3-1-31), the form is कमिषीध्वम् (8-3-79 does not apply because the मकार: preceding “इषीध्वम्” does not belong to the “इण्”-प्रत्याहार:।)