Table of Contents

<<3-4-86 —- 3-4-88>>

3-4-87 सेर् ह्यपिच् च

प्रथमावृत्तिः

TBD.

काशिका

लोटः इत्येव। लोडादेशस्य सेः हि इत्ययम् आदेशो भवति, अपिच् च भवति। स्थानिवद्भावात् पित्त्वं प्राप्तं प्रतिषिध्यते। लुनीहि। पुनीहि। राध्नुहि। तक्ष्णुहि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

417 लोटः सेर्हिः सोऽपिच्च..

बालमनोरमा

50 सेह्र्रपिच्च। `हि' इति लुप्तप्रथमाकम्। `लोटो लङ्व'दित्यतो `लोट' इत्यनुवर्तते। तदाह–लोटः सेरिति। स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम्। एवञ्च ङिद्वत्त्वात्क्ङतिचेति गुणो न। `सेर्हर्हिङिच्चे'त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः। भव हि स्थिते–

तत्त्वबोधिनी

39 सोऽपिच्चेति। एवं च पित्त्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तु `स्थानेऽन्तरतमः' इत्यनुदात्तो न भवति, `जहि शत्रून्ट, `स्तुहि श्रुतम्॥

Satishji's सूत्र-सूचिः

302) सेर्ह्यपिच्च 3-4-87

वृत्तिः लोटः सेर्हिः सोऽपिच्‍च । “सि” of लोँट् is substituted by “हि” and it is an अपित्।
Note: अपित् is that which does not have पकारः as इत्।

गीतासु उदाहरणम् – कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन || 6-46||

भव (√भू-धातुः, लोँट्, मध्यम-पुरुषः, एकवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + सि 1-3-3 = भू + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= भू + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = भो + शप् + हि 7-3-84 = भो + अ + हि 1-3-3, 1-3-8 =भवहि 6-1-78

Example continued below