Table of Contents

<<1-4-104 —- 1-4-106>>

1-4-105 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः

प्रथमावृत्तिः

TBD.

काशिका

लस्य 3-4-77 इत्यधिकृत्य सामान्येन तिबादयो विहिताः। तेषाम् अयं पुरुषनियमः क्रियते। युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमाने ऽप्यप्रयुज्यमाने ऽपि मध्यमपुरुषो भवति। त्वं पचसि। युवां पचथः। यूयं पचथ। अप्रयुज्यमाने ऽपि पचसि। पचथः। पचथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

385 तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः..

बालमनोरमा

12 युष्मदि। उपोच्चारितं पदमुपपदम्। युष्मदि समीपोच्चारिते सतीत्यर्थः। समानमेकमधिकरणं वाच्यं यस्येति विग्रहः। सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम्, `लः परस्मैपद'मित्यतस्तदनुवृत्तेः। तथा च फलितमाह– तिङ्वाच्यकारकवाचिनि युष्मदीति। स्थानं– प्रसङ्गोऽस्यास्तीति स्थानी, तस्मिन्। प्रसक्ते सतीत्यर्थः। प्रसङ्गश्च तदर्थावगतौ सत्यां वक्रा अप्रयोग एव भवति। तथा च `स्थानिनी'त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थं बोधयति सतीत्यर्थः पर्यवस्यति। तदाह– अप्रयुज्यमान इति। `स्थानिनी'त्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात्। ततश्च राम पाहीत्यादावव्याप्तिः स्यात्। अपिना लब्धमाह–प्रयुज्यमानेऽपीति। `युष्मद्युपपदे स्थानिनी'त्येवोक्तौ राम त्वं पाहीत्यादौ युष्मत्प्रयोगे मध्यमो न स्यादतोऽपिग्रहणमिति भावः। अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात्। `भवानागच्छती'त्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात्, भवच्छब्दस्य तु स्वभावेन संबोध्याऽसंबोध्यसादारणत्वादित्यलम्।

तत्त्वबोधिनी

11 युष्मदि। समानाधिकरणे इत्यस्य व्याख्यानं– तिङ्वाच्यकारकवाचिनीति। भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः– सामानाधिकरणम्। स्थानिनीत्यस्य व्याख्यानम्- अप्रयुज्यमान इति। समानाधिकरणे किम् ?। त्वं पश्यति, त्वया क्रियते, तुभ्यं ददाति॥

Satishji's सूत्र-सूचिः

286) युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1-4-105

वृत्तिः तिङ्वाच्‍यकारकवाचिनि युष्‍मदि (उपपदे) प्रयुज्‍यमानेऽप्रयुज्‍यमाने च मध्‍यमः। When the युष्मद्-शब्दः (either implied or expressed) is the word that is in agreement with the verb, a मध्यम-पुरुष-प्रत्यय: is used.

गीतासु उदाहरणम् -
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ।।2-25।। तिङन्त-पदम् is अर्हसि। Here त्वम् (युष्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is implied.

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ।। 2-26।। तिङन्त-पदम् is अर्हसि। Here त्वम् (युष्मद्-प्रातिपदिकम्, प्रथमा-एकवचनम्) is expressed.