Table of Contents

<<6-4-100 —- 6-4-102>>

6-4-101 हुझल्भ्यो हेर् धिः

प्रथमावृत्तिः

हुझल्भ्यः 5/3, हे: 6/1, धिः 1/1|
हिन्दी – [हुझल्भ्यः] हु तथा झलन्त से उत्तर हलादि [हे:] हि के स्थान में [घिः] घि आदेश होता है॥

काशिका

हु इत्येतस्माद् झलन्तेभ्यस् च उत्तरस्य हलादेः हेः स्थाने धिरादेशो भवति। जुहुधि। झलन्तेभ्यः भिन्धि। छिन्धि। हुझल्भ्यः इति किम्? क्रीणीहि। प्रीणीहि। हेः इति किम्? जुहुताम्। हलि इत्येव, रुदिहि। स्वपिहि। इह जुहुतात्, भिन्तात् त्वम् इति परत्वात् तातङि कृते सकृद्गतौ विप्रतिषेधेन यद् बधितं तद् बाधितम् एव इति पुनः धिभावो न भवति। भिन्धकि, छिन्धकि इत्यत्र परत्वाद् धिभावे कृते पुनः प्रसङ्गविज्ञानादकच् क्रियते।

Ashtadhyayi (C.S.Vasu)

After हु and after a consonant (with the exception of semi-vowels & nasals), धि is substituted for the Imperative affix हि, when the latter does not take the augment इट्॥

लघु

558 होर्झलन्तेभ्यश्च हेर्धिः स्यात्. अद्धि. अत्तात्. अत्तम्. अत्त. अदानि. अदाव. अदाम..

बालमनोरमा

256 हुझल्भ्यो हेर्धिः। झलन्तेभ्य इति। अङ्गविशेषणत्वात्तदन्तविधिरिति भावः। अनेकाल्त्वात्सर्वादेशः। `रुदिही'त्यत्र तु न , निर्दिश्यमानहेरिडा व्यवहितत्त्वात्, इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम्। अत्तादिति। धित्वात्परत्वात्तातङ्। तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वं, `विप्रतिषेधे यद्बाधितं तद्बाधितमेवे'ति न्यायात्। अत्तम् अत्त। अदानीति। `आडुत्तमस्ये'त्याडागमः। एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः। अदाव अदाम। लहि आद् त् इति स्थिते–

तत्त्वबोधिनी

225 जुहुधि। `घसिभसोर्हली'त्यतो हलीत्यनुवर्त्त्य हलादेरिति व्याख्यानात् रुदिहि स्वपिहीत्यादाविडादेर्हेर्धिर्न भवति, `अत्ता'दित्यत्र तु धित्वात्परत्वात्तातङि कृते स्थानिवद्भावेन पुनर्धित्वं तु `सकृद्गतौ' इति न्यायान्नेत्याहुः। अन्ये तु– - हेर्धिरित्यत्र स्थान्यादेशयोद्र्वयोरपीकार उच्चारणार्थं इति हकारस्य धकार आदेशः, तेन हलीत्यनुवृत्तिर्न कर्तव्या, नापि तातङो धित्वप्रसङ्ग इति सकृद्गतिन्यायाश्रयणमपि मास्त्वित्याहुः।

Satishji's सूत्र-सूचिः

364) हुझल्भ्यो हेर्धिः 6-4-101

वृत्तिः होर्झलन्‍तेभ्‍यश्‍च हेर्धिः स्‍यात्। The “हि” of लोँट् gets “धि” as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।

उदाहरणम् – अद्धि (√अद्, अदादि-गणः, अदँ भक्षणे, धातु-पाठः #२. १) लोँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

अद् + लोँट् 3-3-162 = अद् + ल् 1-3-2, 1-3-3
= अद् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अद् + सि 1-3-3 = अद् + हि 3-4-87, हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= अद् + शप् + हि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = अद् + हि 2-4-72
= अद्धि 6-4-101