TBD.
संयोगान्तस्य पदस्य यो रेफः तस्मादुत्तरस्य अन्त्यस्य सकारस्य लोपो भवति। गोभिरक्षाः। प्रत्यञ्चमत्साः। क्षरतेः त्सरतेश्च लुङि सिचः छान्दसत्वादीडभावः बहुलं छन्दसि 7-3-97 इति वचनात्। वृद्धौ सति रूपम् एतत्। मातुः, पितुः इति ऋत उत् 6-1-111 इति उत्त्वे कृते रपरत्वे च सति रात् सस्य इति सलोपः। सिद्धे सत्यारम्भो नियमार्थः, रात् सस्य एव लोपो भवति, न अन्यस्य इति। ऊर्जेः क्विप् ऊर्क्। मृजेः लङि अमार्ट्।
TBD.
210 रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः 2। क्रोष्ट्रोः 2। (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन)। क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्।। हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि।। अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्।। खलपूः।।
278 क्रोष्टुर् स् इति स्थिते-रात्सस्य। ‘संयोगान्तस्य लोप’ इत्येव सिद्धे नियमार्थमिदमित्याह–सस्यैवेति। तेन ऊर्गित्यादौ न संयोगान्तलोपः। रेफस्य विसर्ग इति। ‘खरवसानयो’रिति विसर्ग इत्यर्थः। परत्वादिति। परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटि ‘नामी’ति दीर्घे णत्वे कृते क्रोष्टॄणामिति स्यादित्यर्थः। नच नुट् नित्य इति वाच्यं, तृज्वत्त्वे कृते संनिपातपरिभाषया नुटो दुर्लभत्वात्। विवक्षितः। प्रकृतिवदनुकरणं भवतीति त्वनित्यम्। ततश्च ‘अचि-रे’त्यस्य समासप्रवेशेऽपि न लुक्। क्रोष्टनामिति। तृज्वत्त्वं बाधित्वा नुटि कृते ‘नामी’ति दीर्घे रूपम्। गुणे रपरत्वे रूपम्। क्रोष्ट्रोरिति। तृज्वत्त्वे ऋकारस्य यण् रेफः। पक्षे इति। तृतीयादिष्वजादिषु तृज्वत्त्वाऽभावपक्षे इत्यर्थः। ननु ‘तृज्वत्क्रोष्टुः,’‘स्त्रियां च’, ‘विभाषा तृतीयादिष्वची’ति त्रिसूत्री व्यर्था। सृगालवाचिनोःक्रोष्टृक्रोष्टु शब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, श्रृणु- ‘सर्वनामस्थाने स्त्रियां च ऋदन्तस्यैव क्रोष्टृशब्दस्य प्रयोगः। तृतीयादिष्वजादिषु तूभयस्य, शसि हलादिषु च उदन्तस्यैवे’ति नियमार्था त्रिसूत्रीति। इति उदन्ताः। अथ ऊदन्ताः। हूहूरिति। गन्धर्वविशेषवाच्यव्युत्पन्नं प्रातिपदिकमेतत्। हूह्वा हूह्व इत्यादि। दीर्घाज्जसि चे’ति पूर्वसवर्णदीर्घनिषेधः। ‘इको यणची’ति यणि रूपम्। हे हूहूः। हूहूम् हूह्वौ हूहून् हूह्वा। हूह्वे। हूह्वः। हूह्वोः। हूह्वाम्। हूह्वि। अतिचमूशब्दे त्विति। चमूमतिक्रान्तोऽतिचमूः। ‘अत्यादयः क्रान्ताद्यर्थे’ इति समासः। स्त्रीप्रत्ययान्तत्वाऽभावाद्गोस्त्रियो’रिति ह्यस्वो न भवति। नदीकार्यमिति। ‘प्रथमलिङ्गग्रहणं चे’ति वचनादिति भावः। खलपूरिति। खलं पुनातीति क्विप्। खलपू-औ, खलपू-अस् इति स्थिते ‘अचि श्नुधात्वि’त्युवङि प्राप्ते।
240 रात्सस्य। ‘संयोगान्तस्य लोपः’इत्यनेनैव सिद्धे नियमार्थमिदमित्याह– सस्यैवेति। नान्यस्येति। ‘उर्क् परिमार्ट्’इत्यादौ रेफात्संयोगान्तस्य लोपो नेत्यर्थः। ‘रादेव सस्ये’ति विपरीतनियमोऽत्र न भवति, उरप्रभृतिषु कृतसंयोगान्तलोपस्य ‘पुमा’नित्यस्य दर्शनात्। परत्वादिति। न च नुट् नित्यैति वाच्यम्, तृज्वद्भावे कृते संनिपातपरिभाषया नुटो दुर्लभत्वादिति भावः।
तिसृणां’ ‘क्रोष्टुना’मिति क्रमेणोदाहरणानि। ननु रेण स्वविषये प्राप्तं सर्वं बाध्यं, बाध्यसामान्यचिन्ताश्रयणात्,अत एव ‘गुणदीर्घोत्वानामपवाद’इति वक्ष्यति। तथा चाऽविशेषान्नुडप्यनेन बाध्यत इति कथमिह विप्रतिषेधः, उत्सर्गापवादयोस्तदयोगादिति चेत्; अत्राहुः–अतएव तदंशे विप्रतिषेधं दूषयित्वा ‘न तिसृचतसृ’इतिज्ञापकान्नुडिति भाष्यकृतोक्तम्। एवंच ‘नुम्तृज्वद्भावाभ्या’मित्येव सुवचमिति। इत्युदन्ताः। हु हु रिति। गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम्। हूह्वविति। ‘दीर्घज्जसि चे’ ति पूर्वसवर्णदीर्घनिषेधे सति ‘इक’इति यण्। अतिचमूशब्दे त्विति। ‘पर्थमलिङ्गग्रहणं चे’त्युक्तेः। तथा च ‘एवमतिचम्वादय’इति प्राचोक्तं नादर्तव्यमिति भावः। खलूपूरिति। खलं पुनातीति। पूञः क्विप्।