Table of Contents

<<3-3-161 —- 3-3-163>>

3-3-162 लोट् च

प्रथमावृत्तिः

TBD.

काशिका

लोट् प्रत्ययो भवति धातोः विध्यादिषु अर्थेषु। योगविभाग उत्तरार्थः। विधौ तावत् कटं तावत् भवान् करोतु। ग्रामं भवानागच्छतु। निमन्त्रणे अमुत्र भवानास्ताम्। अमुत्र भवान् भुङ्क्ताम्। आमन्त्रने इह भवान् भुङ्क्ताम्। अधीष्टे अधीच्छामो भवन्तं माणवकं भवानध्यापयतु, माणावकं भवानुपनयताम्। सम्प्रश्ने किं नु खलु भो व्याक्रनम् अध्ययै। प्रार्थने भवति मे प्रार्थना व्याकरणम् अध्ययै, छन्दो ऽध्ययै।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

411 भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा. स् य इट्. भविष्यति. भविष्यतः. भविष्यन्ति. भविष्यसि. भविष्यथः. भविष्यथ. भविष्यामि. भविष्यावः. भविष्यामः.लोट् च.. विध्याद्यर्थेषु धातोर्लोट्..

बालमनोरमा

43 लोट् च। `विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु' इत्यनुवर्तते।तदाह– विध्यादिष्विति। विध्यादिशब्दा अनुपदमेव लिङ्विधौ व्याख्यास्यन्ते।

तत्त्वबोधिनी

34 `विधिनिमन्त्रणे'त्याद्यनुवर्तते। तदाह– विध्यादिष्विति॥

Satishji's सूत्र-सूचिः

295) लोट् च 3-3-162

वृत्तिः विध्‍याद्यर्थेषु धातोर्लोट्। The affix लोँट् follows a धातुः when used in the sense of command/request.

गीतासु उदाहरणम् – मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ ९-३४॥